पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्नै

13.2 अथ त्रयोदशप्रश्ने द्वितीयः पटलः ।।

क्षत्त्रस्योल्बमसीति तार्प्यं यजमानः परिधत्ते । क्षत्त्रस्य योनिरसीति दर्भमयं पत्नी ॥१॥

ताय॑ घृताक्तं वस्त्रम् । तदेतत्परिधानद्वयं विधत्ते-तार्य यजमानं परिधापयति । यज्ञो वै ताठम् | यज्ञेनैवैनर समर्धयति । दर्भमयं परिधापयति । पवित्रं वै दर्भाः । पुनात्येवैनम् । वाज वा एषोऽवरुरुत्सते । यो वाजपेयेन यजते । ओषधयः खलु वै वाजः । यदर्भमयं परिधापयति । वाजस्यावरुद्धयै (ते. ब्रा० १-३-७) इति । ताप्यस्य यज्ञसाधनत्वाद्यज्ञत्वम् । एनं पत्नीदेहम् । वाजपेययाजिनोऽन्नावरोधकामिन औषधिरूपदर्भमयेनान्नमवरुद्धं भवतीति तदर्थः ।। १ ॥

जाय एहि सुवो रोहावेति पत्नीं यजमान आमन्त्रयते । रोहावहीति पत्नी प्रत्याह ॥ २

मन्त्रेण यजमानः पत्नीमामन्त्रयते । रोहावहीति पत्नी प्रत्याह । एवं त्रिः ॥ २ ॥

अहं नावुभयोः सुवो रोक्ष्यामीति यजमानस्त्वहं नावुभयोः सुवो रोहेति पत्नी ॥ ३ ॥

यजमानोऽन्ततो वदति । एवं पत्नी ॥ ३ ॥

आयुर्यज्ञेन कल्पतामिति दशभिः कल्पैः सरजसि निःश्रेण्या यूपमारोहति । उभौ वा ॥ ४ ॥

आयुर्यज्ञेन कल्पतामिति दशभिः कल्पामिति ध्यात्वा सप्तदशफलकयुक्तया निःश्रेण्या यूपं यजमान आरोहति । एवं पत्नी । अध्वर्युरिति केचित् । तं दशभिः कल्पैरारोहत्यायुर्यज्ञेन कल्पतामिति वैखानसः । तं यूपम् । कल्पैः कल्पशब्दोपतैः ॥ ४ ॥

सुवर्देवाꣳ अगन्मेत्यारुह्य जपति ॥ ५॥

सुषर्देवा५ अगन्मेति यूपानं प्राप्य जपति यजमानः । अभूमेति मन्त्रान्तः ।। भाष्ये तु-बाहू उद्ाति सुवर्देवानिति । उगृहीताभ्यां बाहुभ्यां स्वर्गप्राप्तिममिन यता यजमानेनेदमुच्यत इति ॥ ५॥

वाजश्च प्रसवश्चेति द्वादशाऽऽहुतीर्जुहोति ॥ ६ ॥ त्रयोदशेत्येकेषाम् ॥ ७ ॥

घामश्च स्वाहा प्रसपश्च स्वाहा, इत्यादिभिादशभित्रयोदशभिर्वा वामप्रसवीयानि ध्यात्वा जुहोति । वानादयो देवताः । वामशब्दप्रसवशब्दो येषु कर्मसु मन्त्रात्वेन ।