पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.१ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । १४३

मन्त्रचतुष्टयं विभक्तम् । बौधायनाचार्यस्तु ते नो अर्वन्त इत्यादिवाजिनो हवेष्वित्यन्त एक एव मन्त्र इत्यभिप्रेत्य चतुर्थीमेष स्य वाजीत्यादिकामचं चतुष्टयेऽन्तर्भावयामास । आपस्तम्बस्त्वेवमाह -मितद्रव इति चतसृभिः प्रत्याधावतोऽनुमन्वयते इति ॥ १६॥

तिसृभिरित्येकेषाम् ॥ ५७ ॥

स्पष्टोऽर्थः ॥ ५७ ॥

आ मा वाजस्य प्रसवो जगम्यादिति प्रत्यासृतेषु जुहोति ॥ ५८॥

आमा वानस्येत्यूचा जुहोति दर्विहोमधर्मेण | द्यावापृथिवी देवता । प्रत्यामृतेषु प्रत्यागतेष्वश्वेषु ।। ५८ ॥

इयं वः सा सत्या संधाऽभूदिति दुन्दुभिविमोचनीयामेकामाहुतिं जुहोति ॥ ५९ ॥

इयं वः सा सत्येत्यनुवाकशेषेण दुन्दुभिविमोचनीयमिति ध्यात्वा जुहोति । इन्द्रो देवता ॥ ५९॥

सर्वान्वोपस्पृशति ॥ १३.१.६० ॥

सर्वान्वोपस्पृशति न होमः ॥ १० ॥

वाजिनो वाजजितो वाजꣳ ससृवाꣳस इति नैवारमश्वयुग्याववघ्रापयति । यथापुरस्तात्प्रप्रोथेषु च लेपान्निमार्ष्टि ॥ ६१ ॥

नैवारमश्वयुग्याववनापयति । मुखे लेपान्निमार्टि यथापुरस्तादित्यर्थः ॥ ११ ॥

कृष्णलं कृष्णलं वाजसृद्भ्यः प्रयच्छति ॥ ६२ ॥

कृष्णलं कृष्णलं वारसद्धयः प्रयच्छतीति वचनादेकस्य वाजस्त एक कृष्णलं प्रय. च्छति । एवं षोडशभ्यो दत्वा ।। ६२ ।।

तानि प्रत्यादाय ब्रह्मणे ददाति ॥ ६३ ॥

ताति पुनरादाय ब्रह्मणे दद्यात् ।। ६३ ।।

मधोष्ठालं च शतमानस्य कृतम् ॥ (ख० ४ ) ॥ ६४॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने प्रथमः पटलः ।

रजमानो मधुना पूर्ण शतगुलाफलपरिमाणं सुवर्णकृतपात्रं ब्रह्मणे ददाति ॥ ६४ ॥ इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगच. न्द्रिकायां त्रयोदशप्रश्ने प्रथमः पटलः ।। १॥