पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४३ - सत्यापाढविरचितं श्रौतसूत्रम्- [ १३ प्रश्ने

दायार्वाऽसि सप्तिरसीत्यश्वान्समक्षिणोति ||१३.१.५० ॥

प्रपोथेषु मुखदेशेषु लेपानवप्रापणे येऽवशिष्टास्तान्स्पृशन्ति । विष्णोः नमोऽसीति यजुर्युक्त रश्मध्वर्युरारोहति । ययुक्तं तूप्णीमधिरहोत्येके । अश्वाजनि वानंयेति अश्चात जानि कशामादायाध्वर्युः, अर्वाऽसि सप्तरसि वाज्यसीति । कशया तानश्वास्ताडयति ॥ ५० ॥

पश्चादितरे रथा अनभ्यासादयन्तोऽनुयान्ति ॥ ५१ ॥

इतरे राजवैश्यरथकाराश्च स्वं स्व तूप्णी ताडयन्ति । यजुर्युक्तस्य पृष्ठतो गच्छन्ति, इतरे रथाः । वेचित्तु-क्षत्रियाद्यभावे ब्राह्मणा एवं गृह्यन्ते ॥ ५१ ॥

वाजिनो वाजं धावतेति तिसृभिराधावतोऽनुमन्त्रयते । चतसृभिरित्येकेषाम् ॥ ५२ ॥

तिसृभिश्चतसृभिर्वभिर्धावतोऽश्वाननुमन्त्रयते यजमानः । अध्वर्युरित्येके ।। ५२ ।।

वाजिनाꣳ साम ब्रह्मौदुम्बरे रथचक्रे त्रिस्त्रिः परिवर्तमाने गायति ॥ ५३॥

आरूढे ब्रह्मणि वाजिनां साम गायत्यध्वर्युः संप्रेष्यति । तस्य गानार्थ (र्थमा ) वर्तयति आवर्तमाने चक्रे सामगानं वैकल्पिक देवस्याहमिति . यजुर्वा वदति जति । रहेयमित्यन्तः । सामगानशक्तस्य-आविर्मा इति गानमन्त्र इति । वाजिना५ साम गायते ( ते० प्रा० १-३-६) इति ब्राह्मणात् । वाजिनामन्नार्थिनां सबन्धि यत्साम तद्ब्रह्मा गायेत् । अन्नप्रदस्तु सामविशेषः शाखान्तरे द्रष्टव्यः । ब्रह्मण इदं गानमित्यापस्तम्बः स्पष्टयति-औदुम्बर ५ रथचक्र ब्रह्माऽऽरोहति तमाह वाजिनाए साम गायेति तस्य चक्रं त्रिः प्रदक्षिणमावर्तयति । ' तत्राऽऽवर्तमाने ब्रह्मा गायति ।। ( आप० श्री. १८-१-४ । ११) इति ॥ ५३॥

अग्निरेकाक्षरेण वाचमुदजयदित्युज्जितीर्यजमानं धावत्सु वाचयति ॥ ५४॥

अग्निरेकाक्षरेणेति धावत्स्वश्वेषु, उज्जितीरिति ध्यात्वा यजमानं वाचयत्यध्वर्यः । स्तोममुदजयदित्यन्तः । सप्तदशेति वैखानसः ॥ १४ ॥

लक्षणं प्राप्य प्रदक्षिणमावर्तन्ते ॥ ५५ ॥

औदुम्बरं काष्ठमाजि प्राप्य प्रदक्षिणमावर्तन्ते । य आणि धावन्ति । उदञ्च आव. सेन्ते (ते. ब्रा० १-३-६ ) इति हि ब्राह्मणम् ॥ ५५ ॥

ते नो अर्वन्तो हवनश्रुतो हवमिति चतसृभिराधावतोऽनुमन्त्रयते ॥ ५६ ॥

चतसृभिः प्रत्याधावतोऽश्वाननुमन्त्रयतेऽध्वर्युः । तदेवमध्यापकसंप्रदायमनुसृत्य