१ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १४१
मुष्ट्यङ्गत्वं वाक्यलक्षणसमानाधिकरणद्रव्यसंवन्धवाधेन द्वितीया श्रुत्या निवापीङ्गत्वावगमादुभयोराप क्रियाङ्गत्वावगमात्तुल्यत्वम् । तत्र मुख्यत्वात् संख्यानुग्रहो जघन्यत्वाच मुष्टिलोप इति सिद्धान्तः ॥ ३८ ॥ ३९ ॥
तꣳ राजपुत्रो गोपायति ॥ १३.१.४०॥
राजपुत्रो रक्षति । ब्राह्मणो वा ॥ ४० ॥
चात्वाले रथाक्षाकृति काष्ठं निखनति ॥ ४१॥
औदुम्बरेण कृतं निखायेति देखानसः ॥ ११॥
तस्मिन् रथचक्रमौदुम्बरं सप्तदशारं प्रतिमुञ्चति ॥ ४२॥
तस्मिन्रथाक्षाकृतिकाष्ठ औदुम्बरं रथचक्र सप्तदशारं प्रतिमुञ्चति । उत्तरस्यां वेदि. श्रोण्यां सप्तदश दुन्दुभीन्प्रबध्नातीति वैखानसोक्तेः ॥ ४२ ॥
विष्णोः क्रमोऽसीति यजुर्युक्तꣳ रथं यजमानोऽभ्येति ॥ ४३ ॥
रथस्य समीपमभ्यागच्छीत यजुर्युक्तस्य । तदेतद्यनमानकर्म ॥ ४३ ॥
अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा ॥ ४४ ॥
अभितः स्पृशत्यध्वयुरित्येके । यजमान इत्यपरे । पारयन्त्वित्यन्तः ॥ १४ ॥
देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजाजिता वाजं जेषमिति ॥(ख०३)॥ ब्रह्मौदुम्बरꣳ रथचक्रमारोहति ॥ ४५ ॥
रथमातिष्ठतीति बौधायनः । आतिष्ठत्यारोहेदित्यर्थः ॥ ४५ ॥
देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकꣳ रुहेयमिति यजुर्यक्तꣳ रथं यजमानः ॥ ४६॥
आरोहतीत्यनुकर्षः ॥ ४६ ॥
इन्द्राय वाचं वदतेति दुन्दुभीन्निह्रादयन्ति ॥ ४७ ॥
दुन्दुभिमुख ताडयन्ति वाजस्तो नाध्वर्युः । एवमापस्तम्बेऽपि ।। ४७ ॥
वाजसृत इतरान् रथानारोहन्ति ॥४८॥
वाजस्त इतरे ( रान् ) रथानारोहन्ति तूणीम् ॥ ४८॥
वाजिनो वाजजितो वाजꣳ सरिष्यत इति नैवारमश्वौ युग्याववघ्रापयान्त । सर्वान्वा ॥ ४९॥
जिघ्रतेति मन्त्रान्तः । नैवारं च धु-वश्वावधापयन्ति । यजुर्युक्तस्यैव रथस्य धुर्यो । सकृन्मन्त्रः ॥ ४९ ॥
प्रप्रोथेषु च लेपान्निमार्ष्टि विष्णोः क्रमोऽसीति यजुर्युक्तꣳ रथमध्वर्युरारुह्याश्वाजनीत्यश्वाजनिमा