पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- [१३ पन्ने

ध्वयौं नियम्यते । ततः नायमर्थः–यद्ध्वर्यवे ददाति तद्यनयुक्तं स्थमिति किं तर्हि यजुर्युक्तं यद्ददाति तदध्वर्यव इति । तस्य च द्रव्यान्तरसहितस्यैव दान प्राप्तमिति तादृशस्यैव नियमान्न देयान्तरनिवृत्तिः । अध्वर्युमागे तु यथाप्राप्ते यजुर्युक्तो नियम्यते ॥ ३१ ॥ ३२ ॥ १३ ॥ ३४ ॥

अग्रेणाऽऽहवनीयं प्राञ्चो रथानवस्थापयन्ति ॥ ३५॥

अग्रेणाऽऽहवनीयं तत्र देशे प्राश्चः प्राङ्मुखानवस्थापयेयू रथान् ॥ ३५ ॥

यजुर्युक्तं दक्षिणार्ध्यमग्रेणाऽऽग्नीध्रꣳ राजपुत्रोऽवस्थाय सप्तदश प्रव्याधानिषूनस्यति प्राचीनमुदीचीनं वा ॥ ३६ ॥ यत्र जघन्यो निपतति तल्लक्षणं कुरुते ॥ ३७॥

ययुक्तं रथम् । अग्रेणाऽऽग्नीध्र राजपुत्रोऽवस्थितो भवति । स इषु धनुषि संधायास्यति निपेक्षणं करोति । स इषुस्मिन्देशे निपतति तत्र गत्वा पुनरस्यति । एवं सप्तुदशकृत्वोऽभ्यस्येत् । यन्त्र जघन्यं निपतति तत्रौदुम्बरकाष्ठेन लक्षणं मिनोति ॥३६॥ ३७ ॥

यत्प्राङ्माहेन्द्रात्तस्मिन्कृते प्रतिप्रस्थाता नैवारꣳ सप्तदशशरावं चतुर्धा विभज्य बृहस्पतये निर्वपति पयसि श्रपयति ॥ ३८ ॥ सर्पिष्मन्तं चात्वालेऽवदधाति ॥ ३९॥

प्राङ्महेन्द्रप्रणात्पूर्व नाना(रा)शंसासादनान्तम् । तत्र विशेषः -अग्ने नयेति हुत्वा धनेषु व्यन्तरिक्ष, प्रजापते न त्व० वनेषु न्यन्तरिक्षं वरुणो देवता । शिष्टयोरुक्ते । एवं सादितेषु नाना(रा)शंसेषु नैवारे लौकिकं सर्पिरानीय चावाले स्थापयति । . वाजपेये श्रूयते-वार्हस्पत्यो नैवारः सप्तदशशरावः क्षीरे चरुर्भवति, इति । अस्ति सु प्रकृतौ चतुरो मुष्टीनिर्वपति, इति चतुःसंख्या मुष्टिद्रव्यं च । तदुभयमिह चोदकेन प्राप्तम् । न च चतुर्भिर्मुष्टिभिः सप्तदशशरावपरिमाणश्चरुः संपादयितुं शक्यते । अतोऽ. वश्यं बाधितव्ये सति किमुभयं बाधितव्यं शराबद्रव्येण मुष्टिद्रव्यं सप्तदशसंख्यया चु चतुःसंख्या किंवाऽन्यतरत् । तत्रापि किमनियमः । अथ वा मुष्टयनुग्रहः संख्यालोपो विपरीतं वेति । तत्राविशेषादुभयोर्वाधः । तत्रापि समानकार्यत्वाद्न्यं द्रव्येण संख्या संख्ययेत्येकः पक्षः । सप्तदशसंख्याशरावपरिमाणं च यागद्रव्याचं, चतुःसंख्या मुष्टिश्च निर्वापाङ्गमतो न तावत्साक्षादेकविषयत्वं येनोभयमुभयेन बाध्येत । चतुर्भिसृष्टिमिः सप्तदशशरावश्चरुन संपादयितुं शक्यत इत्यर्थाद्वाधः । तत्रैकवाधेनोपपत्तो नोभयबाधनं युक्तम् । तस्मादन्यतरवाधः । तत्राविशेषादनियम इति द्वितीयः । संख्याया दव्याङ्गत्वात् प्रधानस्य मुष्टिव्यस्यानुग्रहः, संख्यायास्तु बाध इति तृतीयः। न सल्लाया