पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-13 १ पटलः ] : महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम्। १३९

सप्तदश गवाꣳ शतानि सप्तदश गोयुक्तानि सप्तदश यानानि सप्तदश शयनानि सप्तदश महानसानि सप्तदश वासाꣳसि सप्तदश दासान् सप्तदश दासीः सप्तदशाजाः सप्तदशावीर्वयसो वयसꣳ सप्तदशानि ददाति ॥ ३१॥ सप्तदशꣳ सप्तदशानि संपादयतीत्येकेषाम् ॥३२॥ अनुदिष्टासु दक्षिणासु यजुर्युक्तꣳ रथमध्वर्यवे ददाति । ३३ ॥ शेषः साधारणः ॥ ३४ ॥

निष्कश्चतुःसौवर्णकः । दुन्दुभयो मुरवाः । अनुदिष्टावनानां निष्क्रयणकृते यजर्यतं रथमध्वर्यवे ददाति । प्रष्टिवाहिनमित्यर्थः। अध्वर्योः स्वीयभागो नियम्यते नाधिको भागः । भागादधिकं इति भाष्यकृत् । शेषः साधारणः । ऋत्विजां सर्वेषां शेषा दक्षिणा लम्यते । अध्वयोंर्यावान्भागः प्रदीयतेऽधिको न्यूनो वा प्रकृतिवाद्विभज्यते यावदध्वयंव इति समशो विभागः । सम एव विभाग इत्यर्थः । छन्दोगवचनात्ताः सममृत्विग्भ्यो विभनेदिति न प्रकृतिवद्विभागः। अपि वा समविभागपक्षे सप्तदशः सप्तदश एवोचितो भागो लभ्यते । तस्मात्सप्तदशो(सदस्यो) नित्यः । सोऽपि महर्विक् । पञ्च महत्विजों वृणीतेति भगवता भरद्वाजेनोक्तम् । रथप्रतिग्रमन्त्र आधान उक्तः । अश्वस्य च देवस्य त्वेति वरुणायाश्वमिति । देवस्य त्वेति देवि दक्षिणे उत्तानायाङ्गीरसायानः, इत्यनसः । देवस्य स्वा देवि दक्षिणे हिमवतो हस्तिनं तेनामृतत्वमिति हस्तिनः । अन्नं दत्त्वा प्रतिप्रहः । अग्नये हिरण्यमिति निष्कस्य । मनवे तल्पमिति दास्याः । प्रियवचनं कृत्वा प्रतिग्रहः । त्वष्ट्रऽजामित्यजायाः । पूष्णेऽविमित्यवेः । नास्त्वा कृतस्तपसस्स्वा तन्वत रूपयस्त्वा वैप(य)न् सोमाय वास इति वासस: गवां शतस्य रुद्राय गामिति प्रतिग्रहः। अनोयुक्तस्य यथाजाति । सप्तदश दुन्दुभीनामुत्तानस्त्वेति प्रतिग्रहः । . वाजपेये सप्तदश रथाः सप्तदश दास्यः' इति दक्षिणां विधाय श्रूयते । यजयुक्त रथमध्वर्यवे ददाति' इति । तत्र संशयः किं यजुर्युक्तो रथोऽध्वर्युभागं निवर्तयेनेति । तत्र ......... प्राकाशवद्यजुर्युक्तः स्यात्तद्भागस्य बाधकः। .. न त्वयं बाधकस्तस्य प्राप्तस्य नियमो ह्यसौ ॥ .. प्राकाशौ ह्यपूर्वावध्वनितिकरत्वेन विधीयमानौ युक्तं तत्र यत्तद्भागं प्राकृतं बाधत इति । इह तु सप्तदश रथा द्रव्यान्तराणि च वाजपेयस्य दक्षिणात्वेन विहितानि इति । तवं यजुर्युक्तस्यापि रथस्य प्राप्तमेव दानं स त्वध्वर्यवेऽन्यस्मै वा कस्मैचिद्दातव्यः सन्न