पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. 0 - 0 - [६] भेदः प्रदर्शितः । इत्थं हि वेदराशिमयस्य भगवतो ज्ञानमयं शरीरमित्याख्यायते । एतस्माद्वेदमयादब्रह्मण एव सकलसृष्टयुत्पत्त्यादिव्यवस्था प्रचाचलीतीति सर्वमनवद्यम् । अथ प्रकृतमनुसरामः । यदुक्तं प्राग्वेदमयस्य भगवत (उपाङ्गेषु ) अङ्गेषु परिंगण. नमिति । तद्विषयेऽधुना किंचिद्विवेकः प्रस्तूयते-'यहचोऽध्यगीषत' (ते. आ० २१९) इत्युपक्रम्य : पुराणानि कल्पान् ' (ले० आ० २ । ९) इति कल्पाः । कल्पसूत्राणि प्रयोगप्रतिपादकानि' इति माधवः । तथा चाथर्ववेदीयगोपथब्राह्मणे- एवमिमें सर्वे वेदा निर्मिताः सकल्पाः' ( गो० पू० प्र० २५.) इति । तथा च मुण्डकोपनिषदि-. 'तस्मै स होवाच द्वे विद्ये वेदितव्ये इति ह स्म ब्रह्मविदो वदन्ति परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते' (मु० १।२।५ इति । कल्पः सूत्रः ग्रन्थः । अनुष्ठेयक्रमः कल्प इत्यर्थः । कल्पसूत्राणां स्वतःप्रामाण्याधिकरणे ( जै० सू० १।३।७.) । कल्पसूत्राणि किं स्वत- न्त्रतया प्रमाणमुत परतन्त्रतयेति विप्रतिपत्तौ तानि पौरुषेयाणि-उनापौरुषेयाणीति चिन्तायां प्रामाण्यान्यथानुपपत्तेरपौरुषेयत्वेन स्वतन्त्रतया प्रामाण्यमेव कल्पसूत्रादीना मिति ब्रूमः । मूलकल्पने गौरवात् । 'षडङ्ग के ' इति स्मरणात् । कल्पसूत्रेषुपलभ्य, मानानां प्रत्यक्षश्रुतिवाक्यानां पौरुषेयत्वे सार्थक्यस्य दुरुपपादत्वात् । सत्यापाढीयादि- समाख्यानां शाकलादिवदुपपत्तेः । ' पुराणानि कल्पान् ' ( तै० आ० २।९ १०) इति कल्पानामपि अध्ययनविधिदर्शनाचेति पक्षोपक्षेपः । तन्निराकरणं च-सत्याषाढी- यादिसमाख्यानां दृढकर्तृस्मरणात्प्रवचननिवन्धनत्वायोगेन पौरुषेयत्वस्याक्षतत्वात् । दुर्बोधोपसंहारार्थेषु कल्पेषु सुबोधकैः शब्दैः प्रत्यक्षनिबन्धनस्याप्यावश्यकत्वात् नित्यब्रह्मयज्ञविधिविषयत्वस्य प्रवाहनित्यतयाऽप्युपपत्तेश्च न स्वतन्त्रतया कल्पसूत्रजालं प्रमाणमिति । अर्थवादाभावोऽप्यन्त्र कल्पस्यावेदत्व एक लिङ्गम् । प्रयोजनं च-सर्वोs- परपक्षः' (खा० गृ. ७१) इत्याचंशेषु संनिहिताभिः-'अमावास्यायाम् ' (स. सू० १।३।१९ ) इत्यादिप्रत्यक्षश्रुतिभिर्बोधितेषु कल्पसूत्राणामप्रामाण्यम् । अत्र भाष्य कृदभिमतं ' सर्वोऽपरपक्ष: ' इत्याद्युदाहरणं चिन्त्यम् । पूर्वपक्षापरपक्षयोरपि दर्शपूर्ण- मासकालत्वस्य प्रत्यक्षश्चतिसिद्धत्वात् । दर्शपूर्णमासकालातिक्रमप्रायश्चित्तपथिकृर्दिष्टेस्त- समानतन्त्रतानिन्दापूर्वकं दार्शपूर्णमासिकस्याऽऽययागस्यैव पथिकृद्गुणकत्वविधायिन्यां सूत्रकारायुदाहृतायाम्-' अथकेपा विवा एतस्य ' ( स० श्री० १५।३।२ ) इत्यादि- शाखान्तरीयश्श्रुतावगम्यमानया निन्दया नहि निन्दान्यायेन पथिकृद्गुणकत्वप्रशंसामा- अपरया विकल्पेन समानतन्त्रताया अपि शाखान्तराभिमतत्वेनानुमिते समानतन्त्रे. 1 4 ० - , , 4