पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. [५] । अथातो ब्रह्मजिज्ञासा' इत्यारम्य- अनावृत्तिः शब्दादनावृत्तिः शब्दात् ' इत्यन्ता जीवनीकत्वसाक्षात्कारहेतुश्रवणाख्याविचारप्रतिपादकान्यायानुपदर्शयन्ती भगवता बाद- रायणेन कृताः । तस्याश्च जीवब्रह्मैक्यसाक्षात्कारः प्रयोजनम् । एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाझिरोवसिष्ठदक्षशातातपपराशरगोतमशडयन लिखितहारीतापस्तम्बोशनोन्यासकात्यायनबृहस्पतिदेवलनारदपतीनसिप्रभृतिभिः कृतानि वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । वर्णाश्रमधर्मविशेषविज्ञानमेवैषां प्रयोजनम्। एवं व्यासकृतं महाभारत वाल्मीकिकृतं रामायणं चेतिहासत्वेन प्रसिद्धे । ते च धर्म- शास्त्र एवान्तभूतें इत्युक्तं प्राक् । एवं सर्वदेवसाधारणमन्त्रशास्त्रं श्रीमहादेवब्रह्मगौतमादि- प्रणीत धर्मशास्त्र एवान्तर्भूतम् । स्वेष्टदेवतायाः सकाशात्स्वाभीप्सितफलप्राप्तिस्त- प्रयोजनम् । एवं निरूपितश्चतुणीमुपाङ्गानां प्रयोजनभेदः । अथ चतुर्णामुपवेदानां प्रयोजनभेदस्तावत्किंचिदुच्यते । वेदचतुष्टयस्य च क्रमेण चत्वार उपवेदाः । तत्रवेंदोपवेदस्य ब्रह्मप्रजापत्यश्व्यादिनिर्मितस्याऽऽयुर्वेदस्याष्टी स्थानानि भवन्ति । सूत्र शारीरमैन्द्रियं चिकित्सा निदानं विमानं कल्पं प्रसिद्धिश्चेति । कामशास्त्रस्याप्यायुर्वेद एवान्तावः । सुश्नुतेन वाजीकरणाख्यकामशास्त्रस्यामिधानात् । एवं समस्तस्याऽऽयुर्वेदस्य रोगतद्धेतुरोगनिवृत्तितत्साधनज्ञान प्रयोजनम् । तच्च मोक्षसा- धनीभूतशरीरारोग्यसंपादकत्वेन मोक्षोपयोग्येव । एवं यजुर्वेदोपवेदो धनुर्वेद पादचतुष्टयात्मको विश्वामित्रप्रणीतः । क्षत्रियाणां स्वधर्माचरणं युद्धं दुष्टदस्युचौरादिभ्यः प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं सामवेदोपवेदो गान्धर्व शास्त्र भरताचार्येणं प्रणीतम् । तत्र नृत्यगीतवाद्यभेदेन बहुविधोऽर्थः अपश्चितः । तस्य गान्धर्ववेदस्य देवता. राधननिर्विकल्पकसमाध्यादिसिद्धिः प्रयोजनम् । रसशास्त्रं च बहुविधं भरतेनैव प्रणीत गान्धर्ववेदान्तर्भूतम् । तच्च रसरीतिशब्दालंकारार्थालंकारनायकनायिकादिवर्णनरूपम् । अथा- धर्ववेदोपवेदोऽर्थशास्त्रम् । तहिकसर्वसुखोपलब्धिप्रयोजनम् । अथ च तदनुसाथैव नीति- शास्त्रमपि मन्वादिभिः सूत्रितं कामन्दकादिभिः प्रणीतम् । तत्संधिविग्रहादिभेदैरनेकधा | लौकिकसर्वव्यवहारनैपुण्यमेव तत्प्रयोजनम् । एवमश्वशास्त्रं गजशास्त्रं शिल्पशास्त्र सूपशास्त्रं चतुःपष्टिकलाशास्त्रं चेति नानाशास्त्राणि शालिहोत्रादिनानामुनिभिः प्रणीतानि । तेषां च सर्वेषों लौकिकतत्तत्प्रयोजनमेदो द्रष्टव्यः । एवमष्टादश विद्याः सप्रयोजनाः संक्षपतो नामनिर्देशन प्रोक्ताः । एवमेव कपिल मुनिप्रणीत सांख्यशास्त्रं पतञ्जलिमुनिप्रणीतं योगशास्त्रं भगवता पशुपतिना निर्मितं पाशु- पतशास्त्रं नारदादिभिः कृतं पाञ्चरात्रादिकं वैष्णवशास्त्रं चेत्येवमादिर्वेदानुकूलः प्रस्थान