पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४] न्यष्टं ब्राह्मणानि । शिक्षाकल्परहस्यादीनां च वेदसाङ्गतापादकत्वमेव मन्त्रब्राह्मणयोर्ध्या- ख्येयव्याख्यानताभावोऽस्ति । तच्च — मान्त्रवर्णिकम् ' इति सूत्रव्याख्याने प्रतिपादित वृत्तिकारैः । एवं च कर्मकाण्डगुणकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स च होत्राध्वर्यवीदानप्रयोगत्रयरूपेण राज्ञकर्मविभागनिहाथै भिन्नः । अथर्ववेदस्तु चतुर्थो वेदत्रय्यवशिष्टब्रह्मत्वकर्तव्यताप्रतिपादकोऽपि ( गा.णि कर्माणि ) शान्तिकपो- ष्टिकाभिचारिकादिकर्मप्रतिपादकत्वेन सर्वोपयोग्येव । आचार्यप्रवचनभेदात्प्रतिवेदं मिन्ना भूयम्यः शाखाः सन्ति । तज्ज्ञानं च चरणब्यूहाख्यवैदिकग्रन्थाद्बोध्यम् । अथ षण्ण शिक्षादिवेदाङ्गानां च प्रयोजनं तावदुच्यते । तत्र शिक्षाया व्याकरणस्य च सुस्पष्टवर्णोच्चारपदसाधुत्वविज्ञानार्थमुपयोगः । मन्त्रपदार्थज्ञानार्थं निरुक्तस्योपयोगः । तन्न हि निरुक्त नामाख्यातनिपातोपसर्गभेदेन चतुर्विध पदनातं निर्वचनेन निरूप्य वैदि- कंपदानामर्थः प्रदर्शितः । एवमृङ्मन्त्राणां पादबद्धानुष्टुबादिच्छन्दोविशिष्टत्वात्तदज्ञान च निन्दाश्रवणाच्छन्दोज्ञानार्थ पिङ्गलविरचितायाश्छन्दोविचितेरुपयोगः । एवं वैदि- ककर्मदर्शादिकालज्ञानार्थमादित्याभूतिप्रणीतस्य ज्योतिषस्योपयोगः । एवं शाखान्तरी- यगुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषविज्ञानायाऽऽश्वलायनसांख्यायनसत्याषाढापस्तम्ब- बौधायनवाधूलभरद्वाजवैखानसाग्निवेशजैमिनिमानववराहमैत्रायणीकात्यायनपारस्करलाट्या- यनबाह्यारणगोभिलखादिरकौशिकादिप्रणी नां कल्पसूत्राणामुपयोगः । एवं निरूपितः षण्णां. वेदाङ्गानां प्रयोजनभेदः ।* अथ चतुर्णामुपाङ्गानां प्रयोजनभेदस्तावत्किंचिदुच्यते । तत्र सर्गप्रतिर्गमन्वन्तरवंश- वंश्यानुचरितप्रतिपादकानि भगवता बादरायणेन निरूपितानि पुराणानि । तानि च महा- पुराणोपपुराणोपोपपुराणभेदाच्चतुःपञ्चाशत् । तेषां पुराणानां च सर्गप्रतिसर्गादिज्ञान सद्धर्माचरणप्रवृत्तिदर्शनमेव सम्यक्प्रयोजनम् । न्याय आन्वीक्षिकी विद्या गौतमप्रणीता। प्रमाणप्रमेयादिषोडशपदार्थानामुद्देशलक्षणपरीक्षाभिस्तत्त्वज्ञानान्निःश्रेयसाधिगम एव तत्प्र- योजनम् ।कणादादिप्रणीतं वैशेषिकं शास्त्रमपि सप्तपदार्थवि(ब्यु)त्पादनकायोजनम् । तच्च न्याय एवान्तर्भूतमित्युक्तं प्राक् । मीमांसा द्विविधा-धर्ममीमांसा शारीरमीमांसा चेति । तत्र (द्वादशाध्यायी) । षोड- शाध्यायी । धर्ममीमांसा - 'अथातो धर्मजिज्ञासा' इत्यारभ्य (अन्वाहार्ये च दर्शनात् । ) 'यथा याज्यसंप्रेषो यथा याज्यसंप्रेषः' इत्यन्ता भगवता जैमिनिना प्रणीता । तस्याश्च धर्मप्रमाणादिविज्ञानपूर्वककर्मकाण्डव्यवस्थापरिज्ञानायोपयोगः । शारीरकमीमांसा च-

  • तद्विषये विशेषतोऽत्र पृथग्वक्तव्यं तदुपरिष्टावक्ष्यामः ।