पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[३] एतेषां वेदानां च प्रथमतः प्रणवरूपेण सूक्ष्मतयाऽवस्थितिरासीत् । ततः प्रणवतो मातृकाणामाविर्भावोऽभवत् । तास्ता एव मातृका या अक्षरसमाम्नायत्वेनोच्यन्ते । तस्मादक्षरसमाम्नायत एव सर्वा आन्वीक्षिक्यादयोऽष्टादशविद्या अपि ब्रह्मद्वारा संभूताः । तदेतदुक्तं श्रीमद्भागवते तृतीयस्कन्धे विदुरं प्रति मैत्रेयेण---- 'ऋग्यजुःसामाथाख्यान्वेदादीन्मुखतोऽसृजत् । इत्यारभ्य आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ' इत्यादिना ' शब्दब्रह्मात्मनस्तात ' इत्यन्तेन । तत्रतासामष्टादश विद्यानां भेदाः प्रत्येकशोऽन. न्तशाखावशादनन्तशः प्रसृताः सन्ति । मुख्यतया ता अष्टादशविद्याश्चाधुनोद्देशादिक्रमेण स्तोक प्रयन्ते- तत्र-ऋग्यजुःसामाथवभेदेन वेदाश्चत्वारः । शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिः- शास्त्र छन्दोविचितिरिति षड्वेदाङ्गानि । पुराणानि न्यायविस्तरः मीमांसा धर्मशास्त्रमिति चत्वार्युपाङ्गानि । आयुर्वेदधनुर्वेदगान्धर्वार्थशास्त्राणीति चत्वार उपवेदा इति मिलित्वा संकलनयाऽष्टादश विद्या भवन्ति । तत्र च महापुराणेषूपपुराणानामन्तर्भावः । न्यायनये वैशेषिकनयस्यान्तर्भावः । मीमांसायां वेदान्तस्यान्तर्भावः । धर्मशास्त्रे च महामारतरा- मायणयोः सांख्यपातञ्जलपाशुपतवैष्णवादीनां चान्तर्भावः । एवमष्टादशविद्यारूपाण्येता- वन्ति ह्यास्तिकानां धर्मप्रस्थानानि भवन्ति । अन्येषामेदेशिनां धर्मप्रस्थानान मेवेवान्त- र्भावः । इत्यमिह साक्षात्परम्परया परमार्थोपयोगिनां वेदोपाकरणानामेव प्रस्थानानां भेदो दिङ्मात्रेण दर्शितः । अर्थतेषां प्रस्था स्वरूपभेदहेतु: प्रयोजनभेदम्तावत्किचिदुच्यते-तत्र धर्मप्र- तिपादकमपौरुषेयं वाक्यं वेदः। स च मन्त्रबाहाणात्मकः । 'मन्त्रब्राह्मणयोर्वेदनामधेयम्। ( आप० श्री० परि० ) इति तत्स्वरूपस्यान्यत्रोक्तः । तत्र मन्त्रा अनुष्ठानकारक- भूतद्रव्यदेवताप्रकाशकाः । ते चर्यजुःसामभेदेन त्रिविधाः । अथर्वणवेदस्यैतेषु त्रिष्वे. वान्तर्भूतत्वेन पृथक्तयाऽनभिधानम् । तदेवं निरूपिता मन्त्राः । मन्त्रव्याख्यानरूपं ब्राह्मण- मपि त्रिविधम् । विधिरूपमर्थवादरूपं तदुभयविलक्षणं चेति । तत्र विध्यादीनां लक्षणभे- दादिविस्तरोऽन्यतो ऽवसेयः । तदेतद्ब्राह्मणं च पुनरष्टविधम् । तदुक्तं बृहदारण्यके- इतिहासः पुराणं विद्या उपनिषदः श्लोका: सूत्राणि ब्याख्यानान्यनुव्याख्यानान्यस्यैव निःश्वसितानि ' इति । तत्र कथाप्रतिपादक इतिहासः । विश्वस्य पूर्वावस्थानिरूपक पुराणम् । उपासनात्मविद्याप्रतिपादिका विद्याः । या चोपास्यदेवरहस्यप्रतिपादिका सोपनिषत् । ये मन्त्राः श्लोकवत्पठ्यन्ते ते श्लोकाः । संक्षिषार्थप्रतिपादक सूत्रम् । विस्तृ- तार्थप्रतिपादकं व्याख्यानम् । व्याख्यानस्याप स्फुटतापादकमनुव्याख्यानम् । एता. । ।