पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० [२] इतिहासपुराणानि पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ( भा० तृ०)। इत्यादिना । तांश्च स्वस्वरूपवन्नित्यसिद्धान्वेदान्भगवान्निनाचिन्त्यशक्त्या वैधदीक्षया ब्रह्माणमुपदिदेश । एतदेवोक्तं श्रुतौ- 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै इति । अनया श्रुत्या च नित्यसिद्धानेव स्वान्तःस्थितान्वेदान्प्रणवमातृकारूपेण सुसूक्ष्मान्ब्रह्ममुखे. भ्य ऋगादिस्थूलरूपेणाऽऽविर्भावयामासेति तावदुच्यते । अत एव- 'अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः । ॥ इति स्मृतेः । वाचा विरूपनित्यया' (तै० सं० २।५।११) इति श्रुतेश्च वेदानां नित्यत्वम् । यच्चोक्तम्-'ऋचः सामानि जज्ञिरे' (ते. आ० ३।११) इति । तत्राप्याविर्भाव एव बोध्यः । जनेः प्रादुर्भावार्थकत्वात् । ननु--शास्त्रयोनित्वात् (ब्र० सू० १।१।३ ) इति व्याससूत्रस्य का गतिरिति चेत्-तत्र योनिशब्दः प्रमाणार्थक एव बोध्यः । तेन 'तं त्वौपनिषदं पुरुष पृच्छामि' इत्युपनिषद्वेद्यत्वं ब्रह्मणस्तत्सूत्रं प्रशास्ति । किंच “ एवं वा अरेऽस्य महतो भूतस्य निः- श्वसितमेतदृग्वेदो यजुर्वेदः सामवेदः " (बृह०२।४।१०) इत्यादिश्चतिरपि वेदानामुत्पत्ति निराकरोति । श्वासप्रश्वासादिवद्भगवानन्तःस्थितान्वेदाँल्लीलयाऽऽविर्भावितवानित्यस्मिन्ने- वार्थे श्रुतेस्तात्पर्यात् । ननु-लीलयाऽऽविर्भावकर्तृत्वेऽपि ब्रह्मोपादानता वेदानां नातैव । तथात्वे च तेषां पौरुषेयत्वं कथं न भविष्यति । न च ब्रह्मकार्यत्वेऽपि तेषां वेदानां पौरुषेयत्वं नामास्ति-पुरुषमात्रजन्यत्वेऽपि पौरुषेयत्वे वर्णानां नित्यत्वेऽप्यानुपूर्वीविशे- षस्य पुरुषजन्यत्वान्मीमांसकंमन्यस्यापि वेदाप्रामाण्यप्रसङ्गात् वर्णनित्यत्वमात्रेणैवापौरु- पेयत्वव्यवस्थापने लौकिकतदादिवाक्यस्याप्यपौरुषेयत्वप्रसङ्गाच्च । तस्मान्मानान्तरेणा- र्थमुपलभ्य रचितत्वं पौरुषेयत्वं सापेक्षत्वलक्षणानामा प्रयोजकम् । तच्च न वेदेषु वेदार्थस्य मानान्तरागोचरत्वात् । इदमेव हि श्रुत्या निःश्वासदृष्टान्तेन दर्शितम् । तथा हि-निःश्वासः पुरुषाज्जायमानो पि न पुरुषचिकीर्षाजन्यः सुषुप्तावपि तह. र्शनात् । एवं समग्रो वेदो ज्ञानस्वरूपेणोपादानकारणरूपाब्रह्मणो जायमानोऽपि न ब्रह्मचिकीर्षाजन् । वेदार्थस्य वेदातिरिक्तमानाविषयत्वात् । इत्यनया विधया ' कारण. गुणा हि कार्यगुणानारमन्ते ' इति न्यायेन कारणरूपस्य ब्रह्मणो नित्यत्ववत्तदाविर्भूत- वेदामामपि नित्यत्वं तावत्सिद्धम् । 1 -