पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावनी। -::- अद्य खलु श्रीमदनन्तसद्गुणगणालंकृतानन्तकोटिब्रह्माण्डमण्डलाखण्डलप्रभृतिवृन्दारक- वृन्दवन्दितपदारविन्दनिष्यन्दमानामन्दानन्दसंदोहमिलिन्दायमानमानसवैखानममुनिजनने- गीयमानविमलविरुदावलिविराजमानदिव्यलीलावतारसमनुगृहीतसमस्तभक्तजनकामनापरि- पूरणनिबद्धपरिकरश्श्रीपरमेश्वरकृपाप्रसादसमवाप्तविशुद्धशेमुषीविशेषविकसितविद्यावैभव कृ. तार्थीकृतधरित्रीवलयानां समस्तधरणीतलविराजमानविविधसभ्यसंभावितसभासभाजितवि- द्वत्त्वसौजन्यसौशील्याभूतिसद्गुणगणावाप्तप्रसरबुधजनसरस्वतीजगीयमानविमलयशोवलक्षी- कृतदिङमण्डलानां परमपूज्यताभाजनसमस्तसज्जनशिरःसरोजसंभावितनमस्क्रियाप्रभृतिपुर- स्क्रियाणां सकलवेदशास्त्रपारावारपारदृश्वनां निखिलकलाकलापकौशल्यशल्योत्खलितदुर्व द्धिनिबद्धाशयानां समस्तभूमण्डलनिवासिना सन्मान्यविद्वज्जनानां पुरतोऽद्य नूतनपरिचयप्र. भावपरिस्फुरदभिनवादरातिशयसमुत्कण्टितसरस्वतीमप्रसादसमवाससुमङ्गलमयगीर्वाणवाग्दे- वतामधुरतरविलासपोल्लासविकसितैः प्रास्ताविकैः कतिपयैर्वाक्यनिकुरम्यैः सुमङ्गलम- यमभिनवोदन्तं निवेदायितुं समुत्कण्ठतेऽस्मदीयं मानसम् । तदत्र समस्तविद्वज्जनानां सुविचारविलासितं चित्तमासमन्ततो विविधविचारणीयप्रस्तुतकार्यकदम्बकादावऱ्या प्रकृतेऽ. स्मदीयेऽभिनवोदन्तनिवेदनीये वक्तव्यांशे समवधानाय कृतक्षणं जायतामिति सप्रश्रयं साञ्जलिबन्धं संप्रार्य संप्रति निजवक्तव्यांशमुपोद्घातमुखेन प्रस्तोतुमारभामहे- 'अयि समस्तसज्जना:- -विदितमेव खलु सकलवैदिकधर्ममार्गानुयायिनां सदाचार- संपन्नानां तत्रभवतां भवताम् । यत्सकलवाङ्मयस्याऽऽदिवीजभूतो वेदो भगवद्रूप इति । तदेतदेव किंचिदत्र विविच्यते- तल्लोकपद्मं स उ एव विष्णुः प्राचीविशत्सर्वगुणावभासम् । तस्मिन्स्वयं वेदमयो विधाता स्वयंभुवं यं प्रवदन्ति सोऽभूत् ॥ इति भूतिमैत्रेयोक्तेः . साक्षाद्विष्णुरूपः स्वयंभूः सर्ववेदोपवेदेतिहासपुराणोपपुराण- वातादण्डनीत्यान्वीक्षिक्यादिभिः स्वोत्पन्नज्ञानविभूतिभिः सह सदैव विराजमानो वरीवर्ति । तस्मादेव . च ज्ञानस्वरूपेणोपादानकारणरूपाद्भगवतो वेदविद्याविर्भावः समभवत् । . . ऋग्यजुःसामाथाख्यान्वेदादीन्मुखतोऽसृजत् । शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् ॥ आयुर्वेद धनुर्वेदं गान्धर्व वेदमात्मनः । स्थापत्य चामृजद्वेदं कमात्पूर्वदिभिर्मुखैः ॥