पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३६ सत्याषाढावरचितं श्रौतसूत्रम्- [१३ प्रश्ने

त्तन्त्रेण होमः । सर्वेषां सांनाय्यवदनुमन्त्रणम् । सरस्वत्या वाचमन्नाद्य पुषेय'मित्यनुमन्त्रणम् । देवेभ्यः स्वाहेति तन्त्रेण परिवप्यहोमः । क्रमण वपोद्धरणाभिघारण, स्वाहोर्ध्वनभसं मारुतामति तन्त्रेण वपाश्रपणीनां प्रहरणम् । सश्स्रावहोमस्तन्त्रेण (मजापतये स्वाहा) प्राजापत्यप्रचारस्य चोपांशचैरथापिता इति । अत्र नोह इति सूत्रकारवचनात् । समुत्क्रम्य वपामार्जनं कृत्वा प्रातःसवनाय प्रसर्पन्तीत्यन्तमित्यादि ततस्ताम्यामित्यूतुपाने प्रतीक्ष्य तेजसो मे ग्रहावकाशकाले ग्रहणमुपस्थानं वीर्याय में वर्षोंदा वर्चसे पवध्वमिति तन्त्रेण विष्णोर्मठ रमसीत्यादि निःसर्पणान्तं सौमिकम् । .. माध्यंदिनस्य कर्म-देव सवितः -स्वदाति नः स्वाहा । सविता देवता । कलशोद्वर्तनं होतृचमसेन वसतीवरीभ्य इत्यादि ग्राव्णामनुमोदनान्ते प्रतिप्रस्थाता सवनीयान्निवपेत् । उक्तन प्रतिप्रस्थाता पशुपुरोडाशैः सह सवनीयानां निर्वपति पुरोडाशा नित्याः, पुनर. नुक्रमात् तस्य कर्म । ___ सप्तसप्ततिः कपालानि द्वे भर्जनार्थे कपाले स्थाली शूर्पत्रयं (द्वंद्वशरावमपि) प्रयु. नक्ति । कृष्णानिनादानादि सर्वं पूर्ववत् । (महकत्रियुगलादि) अथ वा पत्र्यस्तिस्त्रः पात्राणि समृश्य वा न प्रस्थ(स्तर) मृत्तिकास्थौदक्षायवमित्यग्निहोत्रणी शरावं चेति युमपदादत्ते । वेषायव इति शूर्पत्रयं शूर्ये पवित्रे निधाय—अग्नये जुष्टं निर्वपामि । इन्द्राग्निभ्यां जुष्टं०. इन्द्राय जुष्टं मरुद्भयो जुष्टं सरस्वस्त्यै जुष्टमिति ब्रायः (सरस्वते वा) अन्गस्मिशूर्पे पवित्रे निधाय यवाः - इन्द्राय हरिवते जुष्टं० इन्द्राय पृषण्वते जुष्टं अथ वा पूर्वस्मिन्निरुप्तवाहिषु पवित्रे निधाय सरस्वत्यै भारत्यै जुष्टं पुनर्थवनिरुप्ते शूर्प पवित्रे निधाय इन्द्राय जुष्टं पुनहिषु निधाय सरस्वते जुष्टं , अन्यस्मिन्शूपें पवित्र निधाय बृहस्पतये जुष्टमिति नीवाराशरावेण निर्वपति । द्वादश मन्त्रेण, तूष्णीं पञ्च, अथान्वावापोऽष्टादश । इदं देवानामित्यादि नानाबीजवत् अग्ने हत्य५ रक्षस्वेन्द्राग्नी हत्य५ रक्षेथामिन्द्र हव्यः रक्षस्व मरुतो हव्या रक्षध्वं सरस्वति (त) हव्यः रक्षश्वेन्द्र हरिवन्हत्य रक्षपेन्द्र पृषण्वन् हव्यः रक्षस्व सरस्वति भारति • हव्यर रक्षस्वेन्द्र हव्यः रक्षस्व सरस्वन्हव्यः रक्षस्व बृहस्पते हव्य५ रक्षस्वेत्युपसा दनम् । एवं प्रोक्षणम् -अग्नये वो जुष्टं प्रोक्षामीन्द्राग्निभ्यां वो जुष्टं प्रोक्षामीन्द्राय वो । मरुद्भो वो सरस्वत्यै (ते) वो इन्द्राय हरिवते वो इन्द्राय पूषश्वते वा सरस्वत्यै भार'त्यै वो इन्दाय वो सरस्वते वो बृहस्पतये वो जुष्टं प्रोक्षामीति प्रोक्षणम् । शुन्धध्वमित्यादि, उलूखलप्रतिष्ठापने कृते ब्रीहीणां यथाभागं व्यावर्तध्वमिति विभागः । वर्षि. ठमेकमागं षड्विपर्याप्तं सप्तममेकमणिष्ठभागम् । एवं विमज्य, इदमग्नेरिन्द्राग्न्योरिन्द्रस्य मरुता सरस्वत्या (सरस्वत)इति वर्षिष्ठभाग, सरस्वत्या भारत्या इत्यपिछभाग अण्णी