पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १३३

तेषु पशुषु गुणद्वयं वाक्यभेदमङ्गीकृत्य विधत्ते-

श्यामास्तूपरा एकरूपा इव भवन्ति ॥ २२ ॥

पशूनामेकरूपत्वं नामकविधशङ्गपुच्छादिभिर्युक्तत्वम् । एवमिव हि प्रजापतिः समृद्धौ (ले० प्रा० १-३-४) इति शेषात् । प्रजापतिशब्देनात्रेश्वरस्य हिरण्यगर्भशरीराद्यभिव्यक्तेः प्रागवस्था विवक्ष्यते । सा चावस्था श्यामेव भवति । 'तम आसीत्त. मसा गूढम्' इति श्रुतेः । जगद्रूपस्य नानात्वस्यानुत्पत्तरेकरूपत्वम् । 'एकमेवाद्वितीयम्' इति श्रुतेः । पशूनां जगदीश्वरेण साम्ये सति समृद्धिर्भवति ॥ २२ ॥

पर्यग्निकृतानाꣳ सारस्वत्यन्तान्पूर्वानालभन्ते । सारस्वतप्रभृतीनुत्तरान्धारयन्ति ॥ २३ ॥ सर्वेषां प्रतिपशु बर्हीꣳषि वपाश्रपण्यः कुम्भ्यो हृदयशूलाः प्लक्षशाखाश्च तन्त्रमग्नेर्हरणमध्रिगुरुत्तमप्रयाजस्तथा पूर्वः परिवप्योऽतन्त: संज्ञप्तहोमो रशनामुदसनमुत्तरः परिवप्यः । वपाश्रपणीनामनुप्रहरणमभिहोमो मार्जनं वरदानं च ॥ २४ ॥

पर्यग्निकृतानामानेयमैन्द्राग्नमैन्द्रं मारुतसारस्वत्यन्ता-पशून्पूर्वानालभन्ते । त्रिवृता यूपरशन परिवीयेत्येवमादिपाठ्यमानहोमेषु कृतेषु प्रतिनिवृत्ते चाऽऽन्नीचे । सारस्वत्य. न्तानां ये बध्यमानमित्येवमादिसारस्वतादीनष्टादश धारयन्ति यूपदेशस्थान एव धारयन्ति । अधिंगु प्रतिपशोः, तरयेति लिङ्गात् । प्रतिपशुरिति सूत्रान्तरात् । ऋतुपश्वर्थ आरम्भः, अनैकादशिनप्रकृतत्वात् । __ अत्रेय पद्धतिः-अग्नीदग्नीन्विहर प्रतिप्रस्थाता पशुभिरेहि इति आश्विनग्रहं गृहीत्वा त्रिवृता यूपं परिवीय दिवः सूनवः स्थेति स्वरूणां सहाऽऽदाय तन्त्रेण गृहनं सर्वस्वरूणाम् । अन्तरिक्षस्य सानाववगृहामीत्यवगृहनम् । अथ स्नपन पशूनाम् । आग्नेय. मुपाकृत्य बर्हिषि प्रज्ञाते निदधाति । सैव प्लसशाखा सर्वत्र । अन्ये बहिषी । ऐन्द्राग्नम्, ऐन्द्राग्नपशुमुपाकृत्य, ऐन्द्रं वृष्णिमुपाकृत्य वशा वभ्या गौश्छागी वा मरुद्भ्यस्त्वा जुष्टमुपाकरोमीति गोप्रतिनिधित्वेन च्छागवन्ध्या तदभावे प्रसता उत्रा छागा मेषी इत्यन्योन्यस्य प्रतिनिधय इति बौधायनः । ( गोप्रतिनिधित्वेन च्छागवन्ध्या ) गोशब्दे. नोत्राशब्देन वा निगमाः । आश्वलायनसूत्राच । मेषी अपन्नदती, सरस्वत्यै त्वा जुष्टमुपाकरोमि ( मेष वा सरस्वत्यै त्वा जुष्टमुपाकरोमीति । ) प्राजापत्याः शृङ्गहीनाः श्यामवर्णास्तान् । प्रजापतये त्वा जुष्टमुपाकरोमि, इति क्रमेण सप्तदशानां प्रागेवोपाकर