पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ सत्याषाढविरचितं श्रौतसूत्रम् । १३ प्रोतु.

नु संदेहः किं तत्राप्यनियम उत येन क्रमेण पाकरणं प्रवृत्तं स एवोत्तरत्रापति नियामकाभावात्प्रथमवद्वितीयादावप्यनियमः । ... प्रवृत्त्या वा नियम्येत प्रत्यासत्तेरनुग्रहात् । ....... अन्यथा व्यवधानं स्यादनुज्ञाताधिकैरपि ॥ . . - एकैकस्य हि पशोः पदार्था मिथः प्रत्यासन्नाः कर्तव्याः । वैश्वदेवीं कृत्वा प्राजापत्यैश्वरन्तीति वचनावगतपश्चन्तरसाहित्यबलादन्यदीयः षोडाशभिः पदाथैऱ्यावधिर्मनुजानाति नाधिकैः । प्रवृत्त्या च क्रमनियमे तावद्भिरेव व्यवधानं भवत्यन्यथाऽधिकैरपि स्यात् । तस्मात् प्रवृत्त्या नियमः ।। वाजपेये प्राजापत्याः पशवः 'वैधवीं कृत्वा प्राजापत्यैश्चरन्ति' इत्यकस्मिन्काले विहिताः सह प्रयोक्तव्याः । तेषामारादुपकारकाणां तन्नं द्रव्यसंस्कारास्तूपाकर णनियो. जनादयः प्रनिपशु भेदेन कर्तव्याः । ते किमैकेकस्य काम न कृत्वा ततोऽपरस्य कर्तव्याः किंवोपाकरणं सर्वेषां कृत्वा ततो नियोजनमिति । एकैको हि पशुः स्वाङ्गान्यव्यपेतान्यपक्षते । चोद कोऽप्येवमेवातः काण्डानुम्मयो भवेत् ॥ प्रयोगवचनावगतसाहित्यवलेन होकैकस्य पशोधर्माः संश्लिष्टाः कर्तव्याः प्रकृती चौपाकरणादीनामानन्तर्य कृतमिहापि प्रतिकर्मावसायिमा चोदकेन प्रतिपशु प्राप्यते । अत एकस्योपाकरणादिकं सर्व गुणकाण्डं कृत्या ततोऽपरस्य कर्तव्यम् । वाचनिकं. तु साहित्यमारादुपकारकतन्त्रत्वादप्युपपन्नम् । उच्यते वचनेनैककालत्वं पशूनामिह चोदितम् । ... . न तत्प्रयोगवचनाचोदकाद्वाऽपि बाध्यते ॥ .. ____ काल्पनिक प्रयोगवचननिबन्धनं साहित्यं चोदकं चानुमानम् । प्रत्यक्षवचनेन तु वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्ति, इत्येककालप्रयोगः पशूनामवगम्यते । यस्मिन्नेव. क्षण एकम्योपाकरणं कर्तव्यमापतति तस्मिन्नेवापरस्योपाकरणं कर्तव्यं सदशक्यतया केवलं न क्रियते । द्वितीये तु क्षणे न कश्चिद्धेतुर्येन पश्चन्तरं नोपाक्रियेतातः प्रथम पदार्थ सर्वेषां कृत्वा ततो द्वितीयादिः कर्तव्यः । एवं दर्शपूर्णमासादिष्वनेकप्रधानसमयाचे पदार्थानुसमय एव न्यायो न तु काण्डानुसमय इति स्थितम् । यत्र तु प्रधानविरोधो भवति पदार्थानुसमये तत्र काण्डानुसमय एवेति । यथाऽश्वप्रतिग्रहेष्टौ शते सहस्र वा पुरोडाशेषु श्रप्यमाणेषु यदि सर्वेषामधिश्रपणं कृत्वाऽऽधस्योद्वासनं क्रियेत तंतः स दह्येत । तस्मात्तत्र प्रधानविरोधेन न पदार्थानुसमयः । (५-२-२१) ॥२१॥