पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । १३१

यामगृहीतोऽसीत्येवमन्ते रवमपञ्चभिर्मन्त्रैः पञ्चालिग्राह्यान् गृह्णाति । एष ते योनिरिलाय वेति गृहीत्वोपसादयति । तेषां कल्पोग्रहावकाशादिौ)ऐन्द्रवत् । पोडशिनं गृह्णाति अया विष्ठा इति गृह्णामीत्यन्तया । (एवं) सप्तदशापिं गृह्णाति । एष ते योनिः प्रजापतये त्वेति सादयति । सोमनहा इति ते नाम तेषां कल्पे सानुमन्त्रणादि घोडशिवत् । कुवि . दङ्गेति गृह्णाति । अपरस्मिन्सुराग्रहार्थे खरे उपयामैः पूर्वच (श्च) तैः पात्रैः सुराग्रहान्गृह्णाति । कुविदङ्गेत्यनुपयामया । ओषधिधिकारक्षेऽपूर्वत्वे च । सोमविकारत्वे सोपयामया विपरीतेनाऽऽमनन्ति । कुविदङ्गेति सोमग्रहणात् । अया विष्ठा इति सुराग्रहाणामुपयामसादने सोमग्रहेष्वेव । नौपधिविकारत्वेऽपूर्वत्वे च सुराग्रहाणां सोमविकारत्वं तूपयामसादनं च तन्मन्त्रवद्भवति व्यतिषङ्गः । गृह्णात्यध्वर्युः सोमग्रहान्प्रतिप्रस्थाता सुराग्रहान् सप्तदशापि पूर्वोऽध्वर्युः पश्चात्प्रतिप्रस्थाता । एवं नियमः परोक्षं सोमग्रहा नित्यानुवादः । यथायतनं ब्राह्मणपठितत्वात् ।।१३।।१४॥१५॥१६॥१७॥१८॥१९॥

पशुकाले त्रीन्क्रतुपशूनुपाकरोति । मारुतीं पृश्निं वशामुपाकरोति । सारस्वतीं च । मेषीमपन्नदतीम् । मेषमित्येकेषाम् । सारस्वतीं च मेषम् ॥१३.१.२०॥

पशुकाले प्राप्ते त्रीन्क्रतुपशूनुपाकृत्य, आग्नेयमैन्द्राग्नमैन्द्रं वृष्णिमुपाकृत्य समुच्चयदर्शनान्नाऽऽनेयं पशुमिति सूत्रान्तरे | मारुती वशा वन्ध्या गौः । सरस्वतीदेवता च मेषी ' वाग्वै सरस्वती ' (ते. ब्रा० १-३-४ ) इति वाक्यशेषात् । अपन्नदतीमप. तितदन्ताम् । प्राग्वा मारुत्याः सारस्वती मेषी 'सारस्वत्याऽतिरात्रम् ' (तै० वा. १-३-४ ) इति । सारस्वतं चैकरूपं सरस्वान्देवता शाखान्तरे वाक्यशेषात् । तानेतान्पशुविधीन्बौधायन उदाहरति-आश्विनं गृहीत्वा षडूशना आदाय यूपमभ्येति स्वर्वन्तं यूपमुत्सृज्याथैनान्पशूनुपाकरोति-आग्नेयमैन्द्राग्नमैन्द्रं मारुती क्शामिति । आपस्तम्बस्त्वाग्नेयादीनां चोदकप्राप्तानामनुवादं मत्वा मेषीमारुत्योर्विधिमुदाहरति-'पशुकाले त्रीऋतुपर्नुपाकृत्य मारुती वशामुषाकरोति । सारस्वतीं च मेषीम्' ( आप. श्रौ० १८-२-१२ ) इति ॥ २० ॥

सप्तदश प्राजापत्यान्पशूनुपाकरोति ॥ २१ ॥

वाजपेये प्राजापत्याः पशवः सह क्रियन्ते तत्रोपाकरणनियोजनादयः संनिपातिनः प्रतिपश्वावर्तनीयास्तेषां चाऽऽवृत्तिन)कस्य पशोः कात्स्न्येन कृत्वाऽपरस्यापि तथैव क्रियत इत्येवम् । किं तर्हि सर्वेषां यतः कुतश्चित्पशोरारभ्य कृत्वा ततो नियोजनमिति वक्ष्यामः । तत्रोपाकरणं यतः कुतश्चित्पशोरारभ्य यत्र क्वचित्समाप्यते । नियोजनादी