पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १२८ अत्र संभारानाह बौधायन:-' वाजपेयेन यक्ष्यमाणो भवति । स उपकल्पयते कृष्णाजिन५ सु( सौ )वर्णर( रा ) जतौ च रुक्मौ बस्ताजिनः शतमान५ हिरण्य५ सप्तदश सुवर्णानि कृष्णलानि हिरण्यपात्र मधोः पूर्णमौदुम्बरी ५ रथचक्र५ सप्तदशार ५ सप्तदशफलका च श्रिति यूपं च तूपरं चतुरनि सप्तदशारनि गोधूमकलापीमुष्णीष नेवार सप्तदशशराव५ सप्तदशोषपुटान्सप्तदश वायव्यानि सप्तदश पृथुबुनानुपयामान्सतं च वालं च सप्तदश निष्कान्सप्तदश वसनानि सप्तदश वासोभारान्सप्तदश स्थान्त्सप्तदश दुन्दुभीन्त्सप्तदश हस्तिनः सप्तदश दास्यः सप्तदशानासि युक्तानि सप्तदश गवार शतानि वयसो वयसो वा सप्तदश सहनं वा । तस्मिन् हि सर्वाणि वयाशस भवन्ति । चतुर्विशतिं पशूनेकपञ्चाशतमश्वान्रवादिरी वितृण्णी वधैर्ग्यताम् । ज्ञाता आग्निष्टोमिकाः संभाराः । स ग्रीष्मस्य जघन्य ह.सु पुरस्तादापाढ्यै पौर्णमास्यै दक्षिते ' ( बौ० श्री. ११-१) इति । वाजपेयौ द्विपकारी, आप्तवाजपेयः कुरुवाजपेयश्च । अस्मिन्कतो नाग्निचयनम् । चिन्वीत वाजपेयेऽग्निमिति बौधायनः । न चिन्वीतेति शालीकिः ( बी. द्वै. सू. २२-१२) इति प्रतिषेधवचनात् । केचिदनापीच्छन्तीति च्छन्दोगमताचयन कार्यमिति । ज्योतिष्टामसंस्थाभूतोऽपि वाजपेय इति वैखानसोक्तेः । आपस्तम्बेन तु कत्वन्तरत्वेन वाजपेय उक्तः । कत्वन्तरत्वं वाजपेयस्य द्विप्रकारत्वं च । तत्राऽऽप्तवाजपेयः प्रथम उच्यते ॥ १ ॥ ___ तत्र वाजपेयेऽधिकारविधिमुन्नयति -

ब्राह्मणो राजन्यो वा ॥२॥

यतो बृहस्पतिनाऽनुष्ठितः, यतो देवानां मध्ये बृहस्पति मणजात्यभिमानी । ब्राह्मणबृहस्पत्योर्बह्मसंबन्धादकरूप्यम् । ब्रह्मादीते वेद वा ब्राह्मणः इति व्युत्पत्तेः । इन्द्रेणाप्यनुष्ठितः । यतो देवानां मध्य इन्द्रः क्षत्रियजात्यभिमानी । इन्द्रराजन्ययोः क्षत्रसंबन्धादेकरुप्यम् । क्षत्रं नाम बलं तद्भावानुभयोः । अतो मनुप्येष्वपि ब्राह्मणराजन्ययोरेवाधिकारो नतु वैश्यस्य । अत एवाऽऽपस्तम्ब आह-शरदि वाजपेयेन यजेत । ब्राह्मणो राजन्यो वर्द्धिकामः' ( आप औ० १८-१) इति ॥ २ ॥

तस्य षोडशिना कल्पो व्याख्यातः॥ ३ ॥

तस्य वाजपेयस्य पोडशिवकल्पो विधिः । षोडशिनो विद्यमानत्वात् । प्रयोजन सोमविक्रयकाले-शुण्ठ्याऽधीलोधकर्णया सोमं क्रीणाति, इति । अथवा-सप्तदशदीक्षापक्षे शरदि दशम्यामुपक्रमः | त्रयोदशदीक्षापक्षे चतुर्दश्यामुपक्रमः । उभयोः पर्वणोः

१२. श्रुतिमिति पाठः।