पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- [१२ प्रश्

सपरिचाय्योपचाय्यं चिन्वीत ग्रामकाम इति परिचाय्येनोक्तः ॥१४॥

मध्यमा स्वयमातण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति स परिच.य्य इत्यापस्त म्बोक्तम् । परिचाय्यं चिन्वीत ग्रामत्कामो ग्राम्येव भवतीति श्रुतेः । उपचाय्यं ग्रामकामस्य मध्यमायां चिती मध्यमां स्वयमातून प्रदक्षिणमिष्टकागणैः परिचिनोति । नात्र दिश्याः क्रियन्ते ।। १३ । १४ ॥

श्मशानचितं चिन्वीत यः कामयेत पितृलोक ऋध्नुयामिति चतुरश्रः परिमण्डलो वा । यथा महापैतृकी वेदिरित्येकेषाम् । त्र्यश्रिरित्येकेषाम् ॥(ख०२०)।१५॥

श्मशानमिव चीयत इति श्मशानचित् श्मशानं शवदहनम् । यः कामयेत पितृलोके भूतिः स्यादिति । पितरो बर्हिषदादयस्तेषां स्थाने भूतिरस्य भवतीति । स तु मण्डलश्चतुरश्रो वा । व्याख्याता चातुर्मास्येषु महापैतृकी वेदिः । अन्यत्स्पष्टम् । तदेव काम्य. चयनानि समापिनानि । १५ ॥

तापश्चितं व्याख्यास्यामः ॥ १६ ॥

व्यक्तं वक्ष्याम इत्यर्थः ॥ १६ ॥

संवत्सरं दीक्षितो भवति ॥ १७॥

द्रोणचितस्तु भवतीति सर्वस्या अस्या भुमेदेशे तपश्चिन्वन्तीति तपश्चितः कक्षीवदादयस्तैईष्टस्तापश्चितः, तस्मिन्नग्नौ संवत्सरदीक्षा नियमेन भवतीति ॥ १७ ॥

संवत्सरे पर्यागते राजानं क्रीणाति ॥ १८॥

प्रायणीयप्रभृतिकर्म प्रतिपद्यत इत्यर्थः ॥ १८ ॥

पुरस्तादुपसदामाग्नेयमष्टाकपालं निर्वपेदैन्द्रमेकादशकपालं वैश्वदेवं द्वादशकपालं बार्हस्पत्यं चरुं वैष्णवं त्रिकपालं संवत्सरमुपसदोऽनुपसदमग्निं चिनोति ॥ १९ ॥

उपसदोऽपि न प्रवाः । यच्चतुर्विशतिकृत्वः प्रवर्य प्रवृणक्ति परत्वश्रुतेर्भरद्वाजमताच्च । भाष्यकारस्तु-प्रवग्र्योऽपि संवत्सरमेवेति पुरस्तादुपसदा मदन्तीभिर्जिने कृते पञ्चहविष्कमाग्नेय ऐन्द्रो वैश्वदेवो बार्हस्पत्यश्वरवैष्णवत्रिकपाळ इति । तस्यास्तदेव प्रस्तरपरिधिस्तीर्णपक्षे याः कृत इ(मि)तिवचनात् । अस्तीर्णपक्षेऽन्यच्चतुरश्चतुरो मासानेकैकेनोपसन्मन्त्रेण हूयते । उपसदमुपसदं कृत्वाऽग्निचयनं यथासंभवमिष्टकाः ॥ १९ ॥