पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचान्द्रकान्याख्यासमेतम् । १२३ ___ अलजो नाम भासाख्यः कङ्कसमानाकृतिः पक्षिविशेषः । स इव चीयत इति क्विप् । चतुःसीतमिति द्वादशत्वस्य प्रत्याम्नानाच्चतुष्टयम्, तिसृणां स्थान एकैका॥५॥

प्रउगचितं चिन्वीत भ्रातृव्यवानिति शकटाकृतिर्भवति ॥ ६॥

प्रगमनोमुखम् । यावानग्निः सारनिप्रदेशतो द्विस्नावती भूमि चतुरश्नां कृत्वा पूर्वस्याः करण्या अर्धाच्छोणी प्रत्यालिखेत् । लेखयोरन्तः प्रउगाकारो दृश्यते । तदिव चीयत इति ॥६॥

उभयतःप्रउगं चिन्वीत यः कामयेत प्रजातान्भ्रातृव्यान्नुदेयँ प्रतिजनिष्यमाणानित्युभयतः शकटाकृतिर्भवति । यथा विमुखे शकटे ॥ ७ ॥

प्रापश्चाच्च शकटमुखसदृशमुभयतः प्रउगम् । तेनोत्पन्नान्भ्रातृ गान्विनाशयति। उत्पस्यमानानामुत्पत्तिं प्रतिवध्नाति ॥ ७ ॥

रथचक्रचितं चिन्वीत भ्रातृव्यवानिति परिमण्डलो भवति ॥ ८॥

रथचक्रवर्तुलत्वेन चीयत इति रथचक्रचित् । यावानभिः सारनिप्रादेशस्तावती भूमि परिमण्डलां कृत्वेत्यापस्तम्बबोधायनौ ॥ ८ ॥

द्रोणचितं चिन्वीतान्नकाम इति द्वयानि तु खलु द्रोणानि चतुरश्राणि परिमण्डलानि च तत्र याथाकामी ॥ ९॥

द्रोणे हि धान्यं भरन्त्यतो धान्यस्थानसहितमन्नं प्राप्नोति ॥९॥

पश्चात्स्वरुर्भवत्यनुरूपत्वायेति ॥ १२.८.१० ॥

विज्ञायत इति शेषः ॥ १० ॥

समूह्यं चिन्वीत पशुकाम इति समूहन्निवेष्टका उपदधाति ॥ ११ ॥ दिक्षु चात्वालात्खात्वा तेभ्यः पुरीषमभ्यूहतीत्येकेषाम् ॥ १२ ॥

समूहमहतीति समूह्यः ॥ ११ ॥ १२ ॥

परिचाय्यं चिन्वीत ग्रामकाम इति मध्यमाꣳ स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति ॥१३ ॥

१५. चतुरश्रे।