पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७. पटेल: ] महादेवशास्त्रसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १२१

ततः श्वोभूत एकोनविंशतिरिष्टका अवशिष्टा येनर्षय इत्यष्टौं नानामन्त्रा एकादश लोकंपृणाः पुरीषान्तम् । ततश्चितिक्लप्त्यादिचित्यन्तं पुरीपवन तृतीयचितिवत् । ततः श्वोभूते च विंशतिरिष्टका अवशिष्टा येनर्षय इत्यष्टी नानामन्त्रा द्वादश च लोकंपृणाः पुरीषमुपधाय चितिक्लप्यादिचित्यन्तं चतुर्थीतुल्यः पुरीपवर्जमेष समृद्धयर्थायाः। संतानार्थायास्तु चितिरुच्यते । तृतीयमग्निं चिन्वानस्तृतीयस्यां चित्ती नानामन्त्रा उपधाय येनर्षय इत्यष्टावुपद्धाति । उत्तरवेद्यामग्नावेव नान्यत्रति उत्तरवेदिग्रहणं क्रियते पुनः पुनः । ततो यथार्थं लोकंपृणाः पुरीष, चित्यन्तं च पुरीष तृतीयचितिवदेषा संतानार्थायाः । __ अथो खल्वाहुनह्मवादिनी न चेतव्या पुनश्चितिः, इति सूत्रान्तरे च समृद्धयर्थायाः सांतानार्थायाश्च काम्यत्वादेवानित्यत्वं बोध्यम् । अन(स्त्र) गार्था तु नित्या प्राप्ता । सर्वा ह्याहुतीः सवीर्या इच्छन्ति तस्याः प्रतिषेधो विकल्पार्थः । तामपि चिनोति विकल्पेन । एष रुद्रः सर्वाग्निचित्यायाः । यथा व्याघ्रः सुप्तो बोध्यते तथेयं (थाऽयम) स्रवणार्थायां क्रियमाणायां बोध्यते । अतो न चेतन्या । अन्ये त्वाहुश्चेतव्येति । यथा ब्राह्मणः श्रेयान्धनं प्रयच्छन्तं बोधयति सुप्तमपि तथाऽत्रापि बुद्धस्येज्या क्रियते ।। (नन्वग्निचिह्नवानि वर्षति न धावत्' (जै० सू०५-३-१० ) इत्यादीनि चयनानन्तरमेव भवन्ति क्रत्वन्ते वेति संशये धात्वर्थश्चयनं भूतं निमित्तं तदनन्तरम् । व्रतान्यतः प्रवर्तेरन्नाऽऽहिताभिवतादिवत् ॥ नैवम् । भावनाया निमित्तत्वं धातुस्तदुपर्जनम् । तस्याश्च फलनिर्वृत्त्या निवृत्तिरूपलक्ष्यते ॥... न ह्यत्र चयनस्वरूपनिर्वृत्तिनिमित्तं तत्करणिका त्वाकर्मिका भावना भूता निमित्तं तस्याश्चान्युपकारो भान्यः । सोऽपि च ऋतुं साश्यतोऽर्धारणं तच्चाss कतुसमाप्ते. विततं न त प्रानिवृत्तं भवति तन्निवृत्त्या च विना न भावनानिवृत्तिः फलापवाण त्वाद्भावनानामाधानस्य त्वनिगतम दृष्टं भाव्यम् । तच्चानन्तरमेव निर्वृत्तमिति विशेषः ) . इति सत्यापाढहिरण्यकेशिसूत्रव्याख्य.यां महादेवशास्त्रिसंकलितायो प्रयोगचन्द्रिकायां । द्वादशप्रश्ने सप्तमः पटलः ॥

१ () धनुचिह्नान्तर्गतग्रन्थः ( १६--) सूत्रव्याख्यानान्ने योजनायः।