पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पंटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ११९

संतानार्थे—आ तृतीयात्पुरुपादन्नमति, इति । संततिश्चाविच्छिन्ना । अन्नं चाऽऽतृतीयत्पुरुषाद् भवति । यः संतानार्थे पुनश्चितिं चिनुते ।। तत्रास्रवणार्थी चितिरुच्यते-यदीष्टया यदि सोमेन यजेत योऽस्य चितः पूर्वोऽग्निस्तमन्ववसाय तस्मिन्नाहवनीयः पूर्वचिते त्वग्नौ स्थाप्यते । दर्शपूर्णमासाद्या इष्टयस्तासामन्यन्वाधाने पूर्वचितस्याग्नेः समीपं गच्छति । पूर्वचितेऽनावावीय स्थाषयति । वेदिदेशे स्थापयित्वा गार्हपत्यदक्षिणानी । समाप्तायामिष्टौ प्रविशति । एवं नित्यकाम्यनैमित्तिकानां विधिः । पशोस्त्वग्नेस्तृतीयो भागः परस्य चारस्निस्थानीया चितिरेव चोत्तरवेदिस्थानीया । प्रणयनकाले तु व्याघारणप्रभृति संभारनिवषनान्तं क्रियते । यथाप्रकृत्युत्तरतो यूपस्यान्यो यूपः, समानमन्यत् । सोमेऽपि यथाऽऽसीदाग्निकी पूर्वा वेदिस्तथा लक्षणे चोत्तरवेदिस्थानीया साग्निचिज्ज्योतिष्टोमवदन्यत्सर्वं युपम( पाद्य )पूर्वम् । नित्यनैमित्तिककाम्येषु सोमेष्वेवं विधिः । एषोऽश्र( ख )वणार्थः । अपि वा नान्ववसाय पूर्वचितमझिं यागः । अग्निहोत्रमिष्टिं च गृह एव करोति । जातायामुत्तरवेद्या पशो सोमे च, पशौ शम्यामात्रायां दशपायां सोमे व्याघारणान्तायां कृतायामुत्तरवेदिपरिमाणा दग्धा इष्टका आनीय प्रणयनाद्यारोहणान्तं कृत्वा पूर्ववत्'येनर्षय ' इत्यष्टावुपधाय लोकंपृणाश्च चितिक्लप्त्याद्यश्वपारिणयनान्तं कृत्वा प्रथमा चितिस्तत्कृत्वाऽभिप्रणयनादि पारधयः संभाराश्योपर्यग्नो धार्यमाणे, ऊर्णावन्तमित्यभिज्ञाय पश्चात्सर्वं पशुबन्धवत् । सोमे तु मध्यमायामुपसदि प्रोक्षणान्तं कृत्वोत्तरवेदि प्रकृतिवद्विरम्य (हत्य )श्वोभूते पौर्वाहिकीभ्यां प्रचर्य व्यापारणमिष्टकाप्रणयनादि पूर्ववदारोहणान्तं कृत्वा चयनमुत्तरवेदिपारमाणाभिरिष्टकाभिः पूर्ववदश्वावभितस्तिष्ठेताम् । येनर्षय इत्यष्टौ नानामन्त्रा लोकं पृणेति लोकंपृणास्ततश्चितिक्लप्त्यादि गायत्र्याभिमर्शनान्तं कृत्वा प्रथमचितिवत् । तत आपराह्निक्यौ, अश्वपरिणयनं प्रवर्णोद्वासनादि ज्योतिष्टोमवत् । प्रणयने चोपर्यग्नौ धार्यमाण अवन्तमित्यभिज्ञाय परिधयः संभाराः, सर्वं ज्योतिष्टोमवत् । द्वितीयो विधिरना स्त्र )वणार्थायाः । अपि वोत्तरवेद्यामुपर्यनौ धार्यमाणे पशौं सोमे च प्रजापतिरत्वेत्युत्तरवैदिमभिमृशति । ततो व्याधारणप्रभृति संभारनिवपनान्तं कृत्वेत्येवमादि प्रक्षिपति । तृतीयो विधिः । चतुर्थ्य(थोऽपिवा तिस्रः स्वयमातृप्णास्तासामुपधानकरूप उत्तरवेद्यां कृतायां सोमे पशौ वा पूर्ववत्प्रणयनाद्यारोहणे कृते स्वयमातृण्णां प्रकृतिवत्सामान्तां कृत्वा पृष्टो दिवीति । पुरीषक्षेपः । स्वयमातृण्णायामेवं विहितायां तेनैव प्रकारेण सा द्वितीयसामान्ता द्वितीया । ततः पुरु(री)विधानेन तृतीया । तस्याः पुरीषं चितिवलप्त्यावश्वपरिणयनान्तं पुरीपवर्ज पञ्चमो विधिः ।