पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्याख्यासमेतम् । ११७

न धावेन्न रामामुपेयान्न द्वितीयं चित्वाऽन्यस्य स्त्रियमुपेयात् ॥ १६ ॥ न तृतीयं चित्वा कांचनोपेयाद्भार्यां वोपेयात् ॥ १७ ॥

संवत्सरं कंचिदपि न प्रत्यवरोहेत् । प्रत्युत्थानं न कुर्यात् गुरूणामपि । यदा त्वभिषेकः कृतस्तदा यावज्जीव संवत्सरमनभिषेकेऽपि । रेतःसिग्नतत्वात् । नहीमे कंचन प्रत्यवरोहतस्तदेनयोर्चतामिति । रामा यस्य शूद्रा क्रयेणाऽऽनीता सोऽपि यजमानस्तां संवत्सर नोपगच्छति । पक्षिमांसस्यापि संवत्सरमभक्षणम् । मस्तिष्क मस्तकमांसं तस्य च । अग्निचिद्वर्षति दैवे न धावेद्यावजीवम् । यदि तु कथंचिद्विस्मृती धावेद्यस्मात्स्थानाद्धावनं कृतं तदेव स्थानमावर्तेत । द्वितीयमग्निं चित्वाऽन्यस्य वर्णस्य स्त्रियं भार्यामविक्रमे(ये)णाऽऽहृतां नोपगच्छेत्संवत्सरं न यावज्जीवं रामातुल्यत्वात् । तृतीयमग्निं चित्या कांचिदपि समानवर्णामपि संवत्सरं नापगच्छत् । सर्ववर्णानां सवर्णा त्ववश्य भर्तव्या द्वयोर(व्याs)धिकारश्नुतेः । कामप्तस्तु प्रवृत्तानामसवर्णभार्या न साऽवयं भर्तच्या ॥ १५ ॥ १६ ॥ १७ ॥

अग्निं चित्वा य एतस्मिन्संवत्सरे न विरोचेत । स क्रतुमारभमाण एकचितीकमग्निं चिन्वीत ॥१८॥

अग्निं चित्वाऽग्निगुणकेन ऋहुनेष्ट्वा य एतस्मिन्संवत्सरे यस्मिंश्चितोऽनिस्तस्मिंश्चदस्यावृद्धिभवति हासो धनधान्यानामिति । केचित्तु-ऋद्धिमतामप्येतत्कर्मेत्याहुः । एतस्मिन्संवत्सरे यस्मिंश्चितोऽग्निः स ऋतुमाहरमाणोऽभीष्टमेकचितीकमेक.प्रस्तारं चिन्वी. ताग्निम् । पूर्वचितस्याग्नेः समानमिष्टकाभिः षष्ठी चितिरिति श्रुतेः ॥ १८ ॥

सलिलाय त्वा सर्णीकाय त्वेत्यष्टौ नानामन्त्राः ॥ १९ ॥ यथार्थं लोकंपृणाः । अथ पुरीषम् ॥१२.७.२०॥

सलिलाय त्वेत्यष्टौ नाना मन्त्रा उत्तरवेद्यामुपधाय पूर्व त्रिःपमाणायां कृतार्या पूर्वाग्मितुल्यायां वाऽवान्तरा मध्यमे प्रवर्योपसदां चितिः, प्रतिवद् व्याधारणान्तं कृत्वा प्रकृतिवद्विरमणम् । अग्नीषोमीयदिवसे पौर्वाहिकीभ्यां प्रचर्य चयनं, षष्ठी चितिरिति श्रुतेः । अवयवत्वादग्निधर्माणामप्रयोजनम् । अग्नेहोते धर्मा नैकदेशः शक्नोति प्रयोक्तुम् । एकचितीकं चि-वीतेति पुंलिङ्गनिर्देशात्तेन तुल्यः प्रस्तार एकः । अप्रतिष्ठायां तु निमित्तेऽग्निं चित्वा न प्रतितिष्ठति पश्च पूर्वाश्चितयो भवन्ति, अथ षष्ठी चिति चिनुत, इति तुल्यत्वादस्यामपि चितिधर्माः क्रियन्ते । न त्वग्निधर्माः कर्षणादयः । प्रचर्य पौर्वाह्निकीभ्यां प्रवग्र्योपसम्याम् । औपवसध्ये सुब्रह्मण्यान्ते, अग्रेण १ घ. न बलात्कारेणोपगच्छेत्सवत्सरं ।