पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्रम्-- . . [ १२

अनूबन्ध्यावपायाꣳ हुतायां यदाऽऽकूतात्समसुस्रोदित्येतेनानुवाकेन प्रतिमन्त्रमाकूतीर्जुहोति ॥ १२.७.१० ॥

अनुबन्ध्यावपायां हुतायां वपने कृते स्नाते च पात्नीवतः । तस्मिन्समाप्तेऽर्षित मोकः । (औदुम्बरी ५ सुचं घृतस्य पूरयित्वा-इम स्तनमूर्जस्वन्तं धयापामित्यनिर्विमोको हूयते । ) ततः पशुपुरोडाशाद्यनूबन्धमाशेषम् । यदि त्वामिक्षा, ता हुत्वा वपनं स्नानं पात्नीवतं च कृत्वा देविकाहविर्भिः ( प्रचरणादि ) प्रचारादिसक्तुहोमे. कृते धूमानुमन्त्रणे च । यदाकूतादिति दशाऽऽहुतीरध्वर्युर्जुहोति ॥ १०॥

आपं त्वाऽग्ने मनसेति प्रयास्यन्नाप्ती(प्ति)भिरग्निमुपतिष्ठते ॥ ११॥

यजमान इति बौधायनः । योऽयं मन्त्रः पठितस्तं • मन्त्रमुक्तप्रकारेण प्रयाण्काले ब्रूयात् । इत्याहैषा वा अनेराप्तिम्तयैवैनमाप्नोति । (५-५-७) इति । एषैव मन्नपाठानुष्ठितिरनेः प्रापिका । तस्मात्तयैवानि प्राप्नोतीत्यर्थः ॥ ११ ॥

येऽग्नयः पुरीष्या इति यत्र स्वीयमग्निं पश्यति तमुपतिष्ठते ॥ १२ ॥

केचित्तु-प्रत्यवरुह्य चित्यात्नर्मन इत्युपतिष्ठते चित्यम् । अयं नो नभसा पुर इत्युपस्थानादि यजमानस्य वृष्टिरसीत्यन्तम् । तत आत्मी(प्ति)भिरुपस्थानम् । येशयः पुरीप्या इति । आपं त्वाम्मे वशयति लिङ्गात् । 'अग्निचित्ये वशा नित्या' इति न्यायः । भाष्यकारस्तु विकल्प एवेत्यात्मी(प्ति)भिरुपस्थानम् । प्राजहित ५ समारोप्यैवमादिकर्म, इति वैखानसादयः ॥ १२ ॥

उप त्वाऽग्ने दिवे दिव इति तिसृभिरन्येषामग्नीन्दृष्टा(ष्ट्वा) ॥१३॥

अन्येषां यजमानानां चितिं दृष्ट्वोपतिष्ठते । प्रयास्यन्नेव यावन्नाध्यवस्यत्युदवसानीयार्थदेशं यजमानः । केचित्तु ---यावज्जीवमन्येषामग्निमु( नीन्दृष्ट्वो )पस्थानं कुर्वन्तीति

अग्निं चित्वा सौत्रामण्या यजेत । मैत्रावरुण्या चाऽऽमिक्षया ॥१४॥

उदवसानीयान्ते च कृतेऽग्निं चित्वाऽग्निगुणकेन ऋतुनेष्वाऽनन्तरं सौत्रामणी मैत्रावकुणी चाऽऽभिक्षा । विना पर्वणीति भाष्यकृत् । आगामिपर्वणीति न्यायः शक्यते कालं संपादयितुमिति ॥ १४ ॥

अग्निं चित्वा संवत्सरं न कंचन प्रत्यवरोहेन्न पक्षिणोऽश्नीयात् ॥ १५ ॥ यावज्जीवं वर्षति ।