पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ११५

होतारं वृणीत इति प्रतिषेधोऽवक्लप्तो भवति । इतरथा सौमिकस्य वरणस्य साङ्गप्रधानार्थस्वादवभथे पृथक्वरणप्राप्त्यभावाप्रतिषेधो न स्यादिति च लिङ्गमुक्तम् । तथा द्वादशाहे अहरहर्युनक्ति अहरहविमुञ्चति, इति प्रत्यहं योगविमोकदर्शनं द्वादशाहे । इतरथा साङ्गप्रधानार्थत्व आद्यन्तयोरेव योगविमोकदर्शनं स्यादिति । ननु-प्रधानार्थत्वेऽपि वरणस्यापूर्वत्वादवमृथस्य वैष्टिकवरणप्राप्तिः । तत्र कश्चिदाहअपूर्वताया एवायमर्थवादो होतृवरणाभावे लाघवं स्यादिति । स चापूर्वत्वपक्षे वरणप्राप्ती सत्यामवकरुप्य(ल्प)ते नान्यथेति । वयं तु ब्रूमः-- यद्यप्यपूर्वोऽवभृथस्तथाऽप्याज्यभा. गयोस्तत्र सद्भावाद्धोतुश्चाङ्गप्रधानार्थत्वात्तद्वरणमध्यङ्गप्रधानार्थम् । न हि दार्शिक वरणं केवलप्रधानार्थ यज्ञसंयोगाभावात् । अतोऽसत्यप्यतिदेशे होतृवरणस्याऽऽज्यमागार्थतयाऽस्त्येवावभृथे प्राप्तिरिति युक्तः प्रतिषेध इति । तदिदं भाष्यकारीयमधिकरणव्याख्यानमनुपपन्नमिति मत्वा वार्तिककारण विपर्ययेण पूर्वोत्तरपक्षी वर्णिती । वाक्यशेषा विभृथलिङ्गाच्च केवलप्रधानार्थो योग इति पूर्वः पक्षः । सिद्धान्तस्त्वग्नेः सर्वार्थत्वात्तद्योगोऽपि सर्वार्थः । न च वाक्यशेषवशाद्विशेषः । योगोत्पत्तिविधी वाक्यशेषाभावात्तत्र तावत्सर्वार्थत्वं गम्यते पञ्चसंख्यागुणविधी वाक्यशेषः श्रुतः । न चासाबुत्पत्तिवाक्या. वगतं सर्वार्थत्वमलं निवर्तयितुम् । किं च यज्ञशब्दो यागमानं ब्रवीतिन प्रधानयागमेव । अतो न तद्वशात्केवलप्रधानार्थत्वम् । अवभृथे च होतृवरणप्रतिषेधोऽङ्गप्रधानार्थत्वेऽपि सौमिकस्य वरणस्य घटत एव । सौमिकं हि वरणमानत्यर्थं प्राकृतं तु होतृवरणं प्रवृत्ते होतरि क्रियमाणमदृष्टार्थम् । अतस्तत्सर्वासु सौमेष्टिषु कार्यमिति द्वादशे वक्ष्यति । तस्माधुक्तः प्रतिषेधः । द्वादशाहे च प्रत्यहं योगविमोकदर्शनमस्मिन्नेव पक्षे घटते । विधानार्थ होतद्वचनं नानुवादमात्रम् | आनर्थक्यात् । तेन सर्वादौ सर्वान्ते च सकृदेव योगविमोकयोायतः प्राप्तोर्वचनेनाहरहयोगविमोको विधीयते । तस्मात्सवर्षो योगः सर्वापवर्गे च विमोकः ॥ ७ ॥

एकादश समिष्टयजूꣳषि जुहोति ॥८॥ नवाऽऽध्वरिकाणि हुत्वा-इष्टो अग्निराहुत: स्वाहाकृतः पिपर्तु नः। इष्टꣳ हविः स्वाहेदं नम इति दशमैकादशे जुहोति ॥ ९ ॥

एकादश समिष्टयषि जुहोतीति वचनादध्वरार्थानि नव हुत्वा धातारातिरिति । इष्टो यज्ञो भृगुभिराशीर्दा वसुभिः स्वाहा । तस्य त इष्टस्य वीतस्य द्रविणे ह भक्षीय स्वाहा । केचिदेकमन्त्रं कुर्वन्ति । तमेव द्विरावर्तन्ति दशमैकादश समिष्टयनुष इति वैखानसोक्तेः ॥ ८ ॥९॥