पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- [ १२ प्रश्नेयेदग्निमस्य वृञ्जीत योऽस्याग्निं चिनुयात्तं दक्षिणाभी राधयेदग्निमेव तत्स्पृणोति' (ते. सं० ५-६-९) इति चयनव्यापार यजमान एव कुर्यात् । अध्वर्युमन्त्रान्वयात् । यदा यजमानश्चिनोति तदा न दक्षिणा ददाति । यदाऽध्वयुश्चिनीति तदा यजमान एव बहुमूल्या गा अध्वर्यवे दधादित्यर्थः । न यजमानाय दक्षिणाभागमेव विशिष्टमध्वर्यवे ददाति न ब्रह्मण इति भाप्यकृत् । अधिकमध्वयोश्चिन्वत इति न्यायः । न ह्यङ्गनि-मित्तां प्रधानदक्षिणा (वि) कुर्यात् । बोधायनमतिश्च-आरण्यकानुवाकेनात्राध्वर्ययेऽसिदक्षिणा ददाति शतं सहस्रमन्विष्टकां वेति । शतं सहस्रं वा रौप्यकमुद्रा इत्यर्थः ।

यदस्यान्याश्चिनुयायत्तं दक्षिणाभिर्न राधयेदग्निमस्य वृञ्जीत ॥ ५॥

तं दक्षिणाभिस्तोषयेत्तेनाग्निमेव तोषयति ॥ ५ ॥

उपाकृते यज्ञायाज्ञि (ज्ञी)यस्य स्तोत्र एकया प्रस्तुत एकस्यां वा गीतायां समुद्रे ते हृदयमिति द्वाभ्यामग्निमभिमृशति ॥ ६॥

यज्ञायज्ञीयस्य स्तोत्रे वर्तमान एकया ऋचा प्रस्तावे कृते नमस्ते अस्तु मा मा हि सी:, नमस्पथ इत्येव मन्त्राभ्यां द्वाभ्यामभिमर्शनम् ॥ ६ ॥

हारियोजनेन चरित इमꣳ स्तनमूर्जस्वन्तं धयापामित्यग्निविमोचनीयामेकाहुतिं जुहोति । वि ते मुञ्चामीति वा ॥ ७ ॥

नन्वनौ श्रूयते–'अग्नि युनाभि शवसा घृतेनेति जुहोत्याग्निमेव तद्युनक्ति पश्चभियुनक्ति पातो यज्ञः' इत्याग्नियोगः। तथा-'इम स्तनमूर्जस्वन्तं धयापामित्याज्यस्य पूर्णा स्त्रचं जुहोतीत्येष वाऽग्नेविमोक.' इति । सोऽयमग्निविमोकः किं प्रधानमात्रापवर्गे स्यादत साङ्गप्रधानापवर्ग इति । यदि प्रधानमात्रार्थों योगस्तदपवर्गे विमोकः, साङ्गप्रधानार्थत्वे तु योगस्य सर्वान्ते विमोकः । तत्राग्नेः सर्वार्थत्वात्तत्संस्कारो योगः सर्वार्थः । तस्मात्सर्वापवर्गे विमोक इति पूर्वपक्षं कृत्वा पाडतो यज्ञः' इति वाक्यशेषेण यतार्थता योगस्य । अतः प्रधानापवर्गे विमोक इति भाष्यकारेण सिद्धान्तितम् । एवं च सौमिकमपि वरणं यदवृता वषटकुर्युभ्रातृव्यमेव यज्ञस्याऽऽशीर्गच्छेत्, इति यज्ञसंयोगादामिसंयोगतुल्यन्यायं केवलप्रधानार्थं भवति । तत्रावभृथे सामिकेन वरणेन प्रत्याम्नातं होतृवरणं प्राप्नोति । तत्र न

१५, द्वाभ्यामभिमर्शनं काल एव स्तीर्ण वेदे । इति पाठोऽधिकः ।