पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ सत्यापाढविरचितं श्रौतसूत्रम्- [१२ प्रश्ने४-

पशुपुरोडाशस्य देवसुवां च हविषाꣳ समानꣳ स्विष्टकृदिडम् ॥ (ख० ॥ १७ ) ॥ २९ ॥१२.६.३०॥

इति सत्याषाढहिरण्यकशिसूत्रे द्वादशप्रश्ने षष्ठः पटलः ॥ ६ ॥

वो वेत्यहीनार्थः । श्वो वा यावन्तः पशव आलभ्यन्ते तावतामुच्छ्रयो यूपानाम् । यथा द्विरात्रे पञ्च पूर्वेऽहन्या लभ्यन्ते षड्डत्तर इति । त्रिरात्रे तु प्रथमेऽहान त्रयः पशवो द्वयोरुच्छ्यणं यूपयोरग्निष्ठ एवाऽऽलभ्यत आग्नेयः। द्वितीये यूपचतुष्टयं पशवश्चत्वारस्तथा तृतीये । एवमन्यत्राप्यहीनेषु विभागः । स तु प्रत्यक्षविभागः । यदि युपैकादशिनी स्यात् , अन्वहमन्यहनि न तु प्रथमेऽहन्युच्छ्यः , अग्निष्ठस्य विद्यमानत्वात् । द्वितीयप्रभृतिज्वहःसु एकैकस्य समानम् । दीर्घसत्रेषु पशुरेवाऽऽवर्तते न यूपोच्छ्रय उच्छूितत्वात् । श्वो वेति विकल्पविधानाद्विरात्रादिष्वपि अग्नीषोमीयकाल उच्छ्यणं लभ्यते । अग्नीषोमीयशोः सर्वसोमार्थत्वादेकयूपे वा सर्व ऐकादशिनी (न) आलभ्यन्ते । स तु यूपस्तेषामेवैकोऽ. निष्ठ इति । अग्नीषोमीयकाल एव द्वाभ्यां रशनाभ्यां परिवीयते । प्रतिपशु स्वरुः (रवः) स स्वरुभिः पशून्व्यर्धयति इति लिङ्गात् । अग्नीषोमीयस्य पशोः पशुपुरोडाशं निरु..प्याष्टौ देवप्सुवां हवींषि निर्बपति-'अग्नये गहपतये पुरोडाशमष्टाकपालं निर्वपति कृष्णानां ब्रीहीणा सोमाय वनस्पतये श्यामाकं चरु५ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालमाशूनां बीहीणा५ रुद्राय पशुपतये गावीधुकं चरुं बृहस्पतये वाचस्पतये नेवारं चरुमिन्द्राय ज्येष्ठाय पुरोडाशमेकादशकपालं महाबीहीणां मित्राय सत्यायाss. म्बानां चरं वरुणाय धर्मपतये यवमयं चरुम् ' (ते० सं० १-८-१०) इति । पष्टिमि(षष्टिसंख्य)रेव दिनः पच्यमाना आशुत्रहयः । स्थूलबीमं महानाय । आम्बा धान्यविशेषाः । कमलवीजमित्येके । अंत्र याजुपहीत्रसत्वे त्वमने वृहद्वयः (ते. सं. • ३-४ ११) इत्यनुवाकोक्ता याज्यापुरोनुवाक्या ग्राह्याः । समानं तु स्विष्टकृदिडं स्विष्टंकृच्चेडा च पशुपुरोडाशस्य मुख्यत्वादग्निगुणक: स्विष्टकृत्स देवसुवामपि भवति । : इडाप्राशनं च मैत्रावरुणपष्ठो भवति ॥ २९ ॥ ३० ॥ - इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रि संकलितायां प्रयो. .. गचन्द्रिकायां द्वादशप्रश्ने षष्ठः पटलः ।।

12.7 अथ द्वादशप्रश्ने सप्तमः पटलः ।

पशुकाल एकयूप एकादश पशूनुपाकरोति एकादशसु वा ॥१॥

पशुकाले प्राप्त पशुनेहीति । आग्नेयं सवनीय पशुमुपाकरोति । आप० श्री. १५(-२) इत्यापस्तम्बः । निवृता यूपं परिवीय ऋतुपशवोऽपि लभ्यन्ते, तेषां प्रदर्शन