पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ई पटलः ] महादेवशास्त्रिसंकलितश्योगचन्द्रिकाव्याख्यासमेतम् । १११

पञ्चमी, अष्टकृत्वोऽभ्यस्यते दशमी च । एवं संख्यां पूरयेत् । एकादश ब्राह्मणाच्छंसीये षडिष्टकास्तु मार्जालीयेष्टावष्टावन्येषु धिष्णियेषु उपधानमनुदेशेष्वपि चतुरश्रा वा भवन्ति धिष्णियाः परिमण्डला वा । केचित्त्वाहुर्गुणविकारेषु पार्रमण्डला इति । तेषां धिष्णियानां यस्य यावत्य इष्टका उपधास्यन्ते शर्करा अपि पारश्रितास्तावत्य एव परिश्रयणार्थाः । अच्छावाक( स्य) धिष्णियोपधानं कृत्वा ब्रह्मसदने पञ्चोपधाय विहव्यास्तव श्रिये इति षष्ठी । बृहस्पते अति यदर्यो अर्हात् , इति सप्तमी । बृहस्पतेः समजयदित्य. ष्टमी । मार्जालीये विहव्या उपधाय तिस्रो यमो दाधारेति च तिस्र उपदधाति । चाल्वाले विहत्याः पञ्चोपधाय त्वेषमिति षष्ठी । अस्या( श्या )मत इति सप्तमी । मृडा नो रुद्र इत्यष्टमी चात्वाले । हव्यं प्रीणीहीति यजुर्भिरष्टौ शामित्रस्थाने । ततोऽवभृथस्थानं गत्वा विहव्याः पञ्चोपधाय-अव ते हेड, उदुत्तमं, तत्त्वा यामि, इत्युपदधाति तिस्रः, कृत्वा परिस्तरणं पूर्व पश्चादुपधानमिष्टकानामिहाप्यवभृथे तासु प्रचरणं साङ्गस्यावभृथस्य काले । भाष्यकारस्तु-बर्हिरभिजुहोत्याहुतीनां प्रतिष्ठित्या इति बर्हिः प्रत्याम्नायत्वादिष्टकानां प्रचरन्तीति तस्मिन्नेव काल उपदधाति नास्मिन्काल इति । अस्मिन्काल इति न्यायः । अस्मिन्काल उपहिता अपि तृणप्रत्याम्नाया एतेनैव तृणं प्रह्रियते । खण्डाः कृष्णा इष्टका यासां च किंचिच्चिह्नं च न सर्वत्र लोहितास्ता उत्करे क्षिपति । अवशिष्टा अपि गुणयुक्ता हित्वोत्करे क्षिपति ॥ २५ ॥ २६ ॥

यत्प्राग्यूपसंमानात्तत्कृत्वैकयूपमेकादश वा यूपान्संमिनोति ॥ २७ ॥ तेषामग्निष्ठं पूर्वेद्युरुच्छ्रयति ॥ २८ ॥

यत्प्राग्यूपसमानात्तत्पूर्व कर्म-अध्वनामध्वपते नमस्ते अस्तु मा मा हिसारिति त तमभिक्रामत्येवमादि पूर्ववदाज्यान्यभिमन्व्यैवमत(न्त)मविकृतेन ज्योतिष्टोमेन विधिना । यद्यप्येकादश युपास्तथाऽपि वेदिसंमितेनैव न रथाक्षेण विमानम् । एकयुपं वा करोति । अग्नीषोमी काल एकादश वैकादशिनधर्मेण वेदिसंमिता । साग्निचित्रे वेदिसंमिता या ] एवाऽऽन्नानान्न रथाक्षविमानं लभ्यते तेषां यूपानाम् । योऽग्निष्ठः स पूर्वेधुरग्नीषोमीयकाले मिनोति । वेदिसंमानविधानं कथं लभ्यत इति पुनरालभ्यते ये त्वग्निष्ठादाश्विन गृहीत्वोच्छी(च्छूि )यन्ते ( इति।) प्रधानकालत्वादङ्गानाम् । अग्नीषोमीयकाल एव वा। येऽप्यग्निष्ठाद्विभज्यैकादशधा वेदिम् । एष एकाहेषु विधिः ॥ २७ ॥ २८ ॥

अत्रैव वा । इतराञ्श्वो वा । अग्नीषोमीयस्य पशुपुरोडाशं निरुप्य देवसुवाँ हवीꣳष्यनुनिर्वपत्यग्नये गृहपतय इति यथासमाम्नातम् ।