पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०४.. सत्यापादविरचितं श्रौतसूत्रम्- ... [.१२ प्रश्ने

पञ्चाऽऽहुतीर्जुहोति ॥(ख०१५) ॥ दश वा पर्यायै रथ्यस्याऽऽहवनीये धार्यमाणꣳ रथशिरोऽभि जुहोति । रथशिरसा जुहोतीत्येकेषाम् ॥ १७॥ समुद्गृहीतꣳ रथमध्वर्योरावसथꣳ हरन्ति । अनुनयन्ति त्रीनश्वाꣳश्चतुर इत्येकेषाम् ॥१८॥ तान्सरथानध्वर्यवे ददाति ॥ १९॥

कामाहुतीः षड्भिः पर्यायैः परिवर्तकादश जुहोति राष्ट्रभृन्मन्त्रैः- अताषाऋतधामाः, ऊों नामेत्येवमन्तः पर्यायः । सकृदेवोक्त्वा तस्मै स्वाहेति प्रमाहुतिः । ताभ्यां 'स्वाहेत्युत्तराहुतिः । एवमुत्तरेष्वपि पर्यायेषु विभागः । वस्ताषाऋतधामाऽग्निर्गन्धर्षः स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा इति । तस्यौषधयोऽप्सरस ऊों नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्यः स्वाहा इत्येवं मा भूदर्थसंबन्धो विभागः । परिपाठसामर्थ्यादन्यथा परिपठितस्य । मन्त्रस्यान्यथा किया न युक्ताऽसति कारणे . नोहेत् । अर्थानाभिदधाति कृतिवदित्यत उहः क्रियते विकृती प्रकृतिवच्छन्दोभावात् ।। भुवनस्य पत इति पर्यायाणां सप्तमी । भुवनस्य पत इति सप्तमी जुहोती त्यापस्तम्बः । पर्यायानधिकृत्यैषा श्रुतिर्विदधाति । भुवनस्य पत इति · त्रयोदशी जुहोतीत्यन्या श्रुतिराहुतीरधिकृत्य, एवमेकार्थत्वाच्छ्रतिद्वयस्य । एतेन व्याख्यातं पर्यायमनु[त्य तस्मै स्वाहेति प्रथमाहुतिः, ताभ्यः स्वाहेत्युत्तरा । एवं पञ्चाऽऽहुती रथमुखे पञ्च । केचिदाहः-आवायस्य स्थशिरो धार्यमाणममिजहोतीति । पञ्चभिर्दशामिवोऽभिहुतास्वाहुतिषु रथमुख आहवनीयस्योपरिष्टाद्धार्यमाणेऽध्वयोरावसथं नयन्ति, उद्यम्यैव हरन्तो न कर्षन्तोऽनुनयन्ति पश्चाद्रथस्य त्रीनश्वान् । यदि पष्टवाही. त्रियुअथः । चतुरो वा । यदि चतुर्युग्रथः । लानश्वारथं चाध्वर्यवे ददाति । पृथगश्वाना प्रतिग्रहः पृथग्रथस्य । न चोहः प्रकृतिविकृत्यर्थत्वान्मन्त्राणाम् । यजमानो हि निमित्ते तिस्रो वडवा द्वे वा वडवे ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥

समुद्रोऽसि नभस्वानित्यञ्जलिना त्रीन्वातनामानि जुहोति ॥ १२.६.२० ॥कृष्णाजिनपुटेन वा ॥ २१ ॥

समुद्रोऽसि नभस्वानित्यञ्जलिना वात एव हूयते त्रिः । न ह्येतस्य वायोरवदानं शक्यते ग्रहीतुम् । भाष्यकारस्तु-अजलिना तिस्त्र आज्याहुतीः, इति । कृष्णाजिनपुटेन वा वातहोमः । नाजालना। उपदेशोऽपि वायुरेवात्र हूयत इति ॥ २० ॥२१॥