पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम्। १०७

साम्राज्येनाभिषिञ्चामीति ब्राह्मणम् ॥ ११ ॥ इन्द्रꣳ साम्राज्येनाभिषिञ्चामीति राजन्यम् । अग्निꣳ साम्राज्येनाभिषिञ्चामीति वैश्यम् ॥१२॥ पुरस्तात्प्रत्यङ्तिष्ठन्पश्चात्प्राङ्मुखमासीनं शीर्षतोऽभिषिच्याऽऽमुखादन्ववस्रावयति ॥ १३ ॥

दक्षिणं प्रत्यपि पक्ष यन्त्र प्रजापतेर्हृदयेन कृतमुपस्थानं तत्रौदुम्बरीमासन्दी प्रतिष्ठाप्य सस्यामासन्धां कृष्णाजिनं प्राचीनग्रीवमुपरि लोमानि यथा भवन्ति तथा विस्तीर्य (प्रसार्य) तस्मिन्कृष्णाजिन आसीनमुपविष्टं प्राङ्मुखमानिमन्वारभ्य स्थितं संपातैरनशेषैभिषिञ्चति ब्राह्मणम् । व्याघ्रचर्मणि राजन्य क्षत्रियम् । छागस्याभिने वैश्यम् । कृष्णानिने ब्रह्मवर्चसकामं क्षत्रिय वैश्यमपि । वस्तानिने तु पुष्टिकामं ब्राह्मणमपि । देवस्य वा, इत्यनुत्य मन्त्रं, पूणो हस्ताभ्यामग्नेस्त्वा साम्राज्येनाभिषिञ्चामीति ब्राह्मणमाभषिञ्चति । पूर्ववदनुद्वत्येन्द्रस्य स्वा साम्राज्येनाभिषिञ्चामीति क्षत्रियम् । पूर्ववदनुद्रुत्य बृहस्पतेस्त्वा साम्नाज्येनाभिषिञ्चामीति वैश्यम् । 'मन्त्रविपर्यासमेके समामननन्ति' (आप.श्री०१७-४) इत्यापस्तम्बः । भाप्यकारस्तु-देवस्य त्या सवितरित्याउभ्य सरस्वत्यै वाचो यन्तुर्यन्त्रेणास्त्वा साम्राज्येनाभिषिञ्चामीत्यभिषिञ्चति । माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते । यथाऽग्निचित्यायामिति स एव वाजपेयपाठो दर्शित इति । इह तु प्रत्यक्षपाठः । अग्नेस्त्वा साम्राज्येनाभिषिञ्चामीत्याहैष वा अग्नेः समः ( ० सं०५-६-३) इति प्रत्यक्षपाठो ब्राह्मणे । प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन्नध्वर्युः लिप्त्वा हुतशेषमामुखाद् यावन्मुखं तावदेव खावयति । अत्राभिषिक्तस्य माहारम्य दर्शयत्यापस्तम्बः-'तदाहु)तव्यमेव नहि सुषुवाणः कंचन प्रत्यवरोहनीति' (आप. श्री०१७-७-६) इति । तदाहुब्रह्मवादिनोऽन्ये शाखान्तरस्था होतज्यमेव लाविलेकार्भ शेषः कर्तव्य इति । न भिषिक्तः सन्यजमानः कंचन दृष्टं गुरुमपि प्रत्यवरोहति, यावज्जीव प्रत्युत्थानं न कुर्यात् । एषोऽभिषेकस्य धर्मः ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥

कृष्णायै श्वेतवत्सायै पयसा दध्ना वौदुम्बरीꣳ स्रुचं पूरयित्वा नक्तोषासेत्याहुतिं जुहोति॥१४॥

अग्निर्देवता । दधिहोमो शाखान्तरस्थः ॥ १४ ॥

ऋताषाडृतधामेति षड्भिः पर्यायैर्वातिदशगृहीतेन द्वादश राष्ट्रभृतो जुहोति ॥१५॥ पर्यायमनुद्रुत्य तस्मै स्वाहेति पूर्वामाहुतिं जुहोति॥१६॥ ताभ्यः स्वाहेत्युत्तराम् ॥ भुवनस्य पत इति रथमुखे