पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६४ : सत्यापाढविरचितं श्रौतसूत्रम्-- [१२ प्रश्

नेरयतामित्यग्निप्रवाहणं शकटे यद्येताद्ध रथवाहनं शकटं तदरण्येऽनुवाक्ये(के)न व्यङ्गं करोति । 'अन्यद्वा किंचिदस्य प्रदेशमिति । अयज्ञसंयुक्तो विधिः सर्वार्थः ॥ ३७॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां .. ' प्रयोगचन्द्रिकायां द्वादशप्रश्ने पञ्चमः पटलः ॥५॥

12.6 अथ द्वादशप्रश्ने षष्ठः पटलः ॥

वसोर्धारां जुहोति । आज्येनौदुम्बर्या स्रुचाऽग्नाविष्णू सजोषसेत्यनुद्रुत्य वाजश्च मे प्रसवश्च मे इति संततामा मन्त्रसमापनात् ॥१॥

वैश्वानरे परिसमाप्तेऽनाविष्णू सजोषसेति चतुर्गृहीतं जुहोति । औदुम्बरी ५ स्रचं ज्यायाममात्री मृदा प्रदिग्धां पश्चादासेचनवती घृतस्य पुरयित्वा ( आप औ०१७'६-१७) इत्यापस्तम्बः | औदुम्बरी उक् , उदुम्बरेण कृता व्यायाममात्री चतुररनि:, मृदा प्रलिप्यते यथा न दह्यते पश्चात्तस्या आसेचनं रिलं पश्चिमभागे व्यायामस्य दण्डोमः, मुख दीर्घ तां धृतस्य पूरयित्वा पूर्णाहुतिरेका वाजश्च म इत्यारभ्य, वान शब्द एवं घारा संतताऽविच्छिन्ना यावत्सर्वैमन्त्रैः समाप्ता । भुवनश्च स्वाहा, अधिपऋतिश्च स्वाहा, इति मन्त्र मन्त्रे स्वाहाकारः । वानश्च मे स्वाहा प्रसवश्च मे स्वाहा इत्येवमन्ता अर्धेन्द्राणि जुहोति, द्वादश द्वादशानि जुहोति (ले० सं० ५-४-८) इति च श्रुतेः । भाष्यकारस्तु-अन्त एव स्वाहाकार इति । एतच्च सूत्रकारमतात् । मरवाहेत्यारभ्य संतता धारा इति मीमांसकाः । तथाहि- संतता वसोर्धारां जुहोतीत्यत्र संततवचनात्तस्य च साहित्यवाचित्वात्साहित्यस्य चानेकापेक्षितत्वात्कर्मणश्चैकत्वात्कर्ममिश्चयो साहित्यमिदमुच्यते । अतोऽत्र मन्त्रादेः कर्मादेश्व संनिपातः । स्यादेवं यद्येक कर्म स्यात् , भिन्नानि त्वत्र द्वादश द्वादशानि जुहोति इति संख्यया कर्माणि तेषामविच्छेदः संततशब्देनीच्यते । जुहोतीति तेषामुपात्तत्वान्न मन्त्रकर्मणोः साहित्यं मन्त्र. स्थानुपात्तत्वात् । अविच्छेदेऽपि संततशब्दो वर्तते न केवलं साहित्ये । अतोऽत्रापि पूर्व एव स्यायः ॥ १० ॥ __ अन्वयष्यरिरकाभ्यां सं तत्य विधत्ते -

यं कामयेत प्राणानस्यान्नाद्यं विच्छिन्द्यामिति विग्राहं तस्य जुहुयात् । यं कामयेत प्राणानस्या