पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पटल ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । १.०५

नाद्यꣳ संतनुयामिति संततां तस्य जुहुयात् ॥२॥

अस्य यजमानस्य प्राणानन्नं च विच्छिन्द्यामित्येवं द्विषन्नध्वर्युरेतं मन्त्र मध्ये विगृह्य जुहुयात् । यस्तु प्राणानामन्नस्य च सातत्यं कामयते सोऽयं संततामाहुति जुहुयात् । प्रतिषेधार्थमिति न्यायः । अवयुकाम इति भाप्यकृत् ।। २ ॥

यदाज्यमुच्छिष्येत तस्मिन्ब्रह्मौदनं पक्त्वा चतुरोऽध्वर्यून्भोजयेत्तेभ्यश्चतस्रो धेनूर्दक्षिणा दद्यात् ॥३॥ चतुःशरावमोदनं पक्त्वा तद्व्यञ्जनं भोजयति ॥ ४ ॥

यदाज्यमुच्छिष्येत स्नुचि तस्मिन्नाज्य ओदनश्चतुःशरायः पच्यते । अर्थमं लौकिकेन न्यायेन तं ब्राह्मणाश्चत्वारः प्राश्नीयुरिति पुनरुपदेशाच्चतुर्णा ब्राह्मणानाम् । भाष्य कारस्तु गार्हपत्ये पाक इति । चतुःशरावश्चतुर्मल्लकः । ओदनं पक्त्वा हुतातिरिक्त घृतेन यच्छिष्टं धारयाऽहतं तस्यौदनस्य व्यञ्जनं भवति । यद्यपि ब्राह्मणग्रहणमविशेष तथाऽपि प्राकृता एवाध्वर्युप्रभृतयो . गृह्यन्ते । प्राशितवद्भयो भुक्तबद्धयश्चतस्रो धेनूदद्याद यजमानः । यद्यप्याज्यगृहीतेन व्यञ्जनं भुज्यते तदप्याज्ये श्रप्यते ॥ ३ ॥ ४ ॥

वाजप्रसवीयं जुहोति । सप्त ग्राम्या ओषधयः सप्ताऽऽरण्याः । पृथगन्नानि द्रवीकृत्य वाजस्येमं प्रसवः सुपव इति चतुर्दशभिर्ऋग्भिरौदुम्बरेण स्रुवेणैकैकयर्चाऽन्नमन्नं जुहोति ॥ ५ ॥

वाजप्रसवशब्दो यस्मिन्होमसमुदाये विद्यते स वाजप्रसवीयस्त जुहोति । सप्त माझ्या ओषधयस्तस्मिन्यन्ते सप्त चाऽऽरवाः पूर्वोक्ताः । पृथक्पृथगन्नानि ग्राम्यारण्यानां द्रव्याणामाज्या कृत्वेति भाष्यकृत् । पपमानानि यथा द्रवाणि भवन्ति तथा कर्तव्यमितिः न्यायः । केचिदपक्वान्याज्येन द्वाणि - कृत्वा होमं कुर्वन्ति । अपरे तु अपऽप्यन्नशब्दो विद्यतेऽन्नस्यान्नस्य वपति, इति ब्रुवन्तः । तत्वयुक्तं ( भवति ) भविष्यति । तदन्नमिति तस्मिन्नन्नशब्दः । औदुम्बरेण उदुम्बरमयेण सुवेण वाजस्येमं प्रसवः सुषव इति प्रत्यूचं ग्राम्यान हुत्वाऽऽरण्यानुहोति- वाजो नः सप्त इति । . केचित्-तिलगापबीहियवप्रियमवणवो गोधूमा इति सप्त साम्या । वेणुश्यामाकादय उदाहला आरण्याः । उभयविधधान्यसमृद्धये चतुर्दशामिॉमः । एकैकेन मन्त्रेणैकैकस्य होमं विधत्ते – अन्नस्यानस्य जुहोति ( तै० सं० ५-४-९) इति । असांक येण