पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ९७

हुतिः । चक्षुषः पितेत्यारभ्य, अयमुनो विढ्यो यथाऽसत्वाहेति द्वितीयेन सूक्तेन नानासूक्ताभ्यां सूक्तेन सूक्तेनाऽऽहुतिद्वयमित्यर्थः ॥ ११ ॥ .. अत्रेदं चिन्त्यते-- किमयं वैश्वकर्मणहोमः प्रतिमन्वं पृथकार्यः किंवा मुक्तद्वयं सहोचार्य सकृदनुष्ठेय आहोस्विदेकेकं सूक्तमुच्चार्यानुष्ठेय इति । तत्राऽऽद्य पक्षद्वयं शाखान्तरगतत्वेनाङ्गीकरोति

यं कामयेत चिरं पाप्मनो निर्मुच्येतेत्येकैकं तस्य जुहुयात् । यं कामयेत ताजक्पाप्मनो निर्मुच्येतेति सर्वाणि तस्यानुद्रुत्य जुहुयात् ॥ १२॥

एकैकमन्त्रहोमेन शनैः शनैः पापनिर्मोको भवति । सर्वसूक्तहोमेन तु तदानीमेव पापनिर्मोकः । पृथक्सूक्तद्वयेऽपि सामर्थं पृथक्संपादितं भवति । अपि च सूक्तद्वित्वं यजमानस्य प्रतिष्ठायै संपद्यते । तस्मादयमेव पक्षः श्रेयानित्यर्थः ॥ १२ ॥

समुद्राय वयुनाय सिन्धूनां पतये नम इति यद्येनमुदकेऽभिविन्देदञ्जलिनोदकमादायाप्सु जुहुयात् । अयज्ञसंयुक्तः कल्पः ॥ (ख०१०)॥ १३ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने चतुर्थः पटलः ॥ ४ ॥

यद्येनं पुरुषमुदके वर्तमानस्य विन्देत मीमीतिर्जायतेत्यर्थः । शुचिभूतोदक जलि. मादाय—समुद्राय वयुनायेति तास्वेवाप्सु जुहुयात्, यासु भयमुत्पन्नम् । यथालिङ्ग स्यागः ॥ १३ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयो गचन्द्रिकायां द्वादशप्रश्ने चतुर्थः पटलः ।। ४ ।।

12.5 अथ द्वादशप्रश्ने पञ्चमः पटलः ।

उत्तमाभ्यामापराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्योदेनमुत्तरां नयेति तिसृभिर्घृतोषितास्तिस्रः समिध आहवनीयेऽभ्यादधाति ॥१॥

आदधाति प्रक्षिपति । अन्य स्पष्टम् ॥ १ ॥

उदु त्वा विश्वे देवा इत्यग्निमुद्यच्छते ॥२॥

इमं प्रणयनीयं क्षिप्त्वा सिकताभिश्चोफ्यम्य, अग्नये प्रणीयमानायेति संपः । उदु त्वा विश्वे देवा इत्यनेरुद्यमनं कृत्वोयतहोमः ॥ २ ॥