पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- [१२ प्रश्ने

पृथिवीमाक्रमिषं प्राणो मा मा हासीदिति कृष्णाजिनस्योपानहावुपमुञ्चतेऽन्यतरां वा ॥ ५॥

काणी (ष्ण्यौं) कृष्णमृगस्य चर्मणा कृतावुपानही लङ्गयति । एकां वा ॥ ५ ॥

अपामिदं न्ययनं नमस्ते हरसे शोचिष इति द्वाभ्यामाग्निमधिक्रामति ॥ ६ ॥

द्वापामग्भ्यामग्निमधिरोहति चितिमध्वर्युः ॥ ६ ॥

जुह्वां पञ्चगृहीतं गृहीत्वा नृषदे वडिति पञ्चभिरक्ष्णयाऽग्निं व्याघारयति । यथोत्तरवेदिम् । ७॥

सुवर्विद वडित्यन्तः । पञ्चभिर्मन्त्रैरग्निं (नौ)व्याघारणं स्वयमातृण्णायां वेत्यापस्तम्बबौधायनौ । उत्तरवेदिवत् । अक्ष्णया विधानं ब्राह्मणे-'नृषदे वडिति व्याघारयति' इत्यारम्य-अक्ष्णयां व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्रहरन्ति प्रतिष्ठित्य । (ले० सं०५-४-५)इति ॥ ७ ॥

ये देवा देवानामिति द्वाभ्यां दध्ना मधुमिश्रेण दर्भग्रुमुष्टिनाऽग्निमनु परिचारमवोक्षति ॥ ८ ॥

स्नुवित्यन्तः । द्वाभ्यामृग पामनु परिचारं गत्वा प्रदेशमा व्यवोक्षणं करोति, दना मधुमिश्रेण दर्भाणां च महता मुष्टया गृहीत्वाऽग्निं विविधमवोक्षति । गुरुः स्थूलो दर्भमुछिीमुष्टिरिति भाष्यकृत् ॥ ८ ॥

कूर्मपृषन्तं कृत्वा प्राणदा अपानदा इति प्रत्यवरोहति ॥ ९॥

यथा कूर्मपृष्ठं भवति नानाविन्दुचित्रितं तथा पृष्ठमध्ये कृत्वा । (ए)कस्य मन्त्रः प्राणदा अपानदा इति । तूष्णीं यजमानः प्रत्यवरोहति ॥ ९॥

जुह्वां पञ्चगृहीतं गृहीत्वाऽग्निस्तिग्मेन शोचिषा सैनाऽनीकेनेति सꣳहिताभ्यामग्नयेऽनीकवत एकामाहुतिं जुहोति ॥ १२.४.१० ॥

अग्निस्तिन्मेनेति द्वाभ्यामेकाहुतिः, अग्निरनीकवान्देवताज्ञानं कङ्गिम् ॥ १० ॥

षोडशगृहीतेन स्रुचं पूरयित्वा य इमा विश्वा भुवनानि जुह्वदिति सूक्ताभ्यां नाना वैश्वकर्मणानि जुहोति । सर्वाभिर्वा ॥ ११ ॥

षोडशगृहीतेनाऽऽज्येन जुहूं संपूर्य विश्वकर्मा सर्वकर्मा येषां देवता वैश्वकर्मणानि, सानि जुहोति । य इमा विश्वा भुवनानीत्यारभ्य, अपां गर्ने व्यदधात्पुरुषा स्वाहेत्येका.