पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १५

जायमानत्वात् । याश्चावका; शैवालाभिधास्ता अपां शरः सारं दध्नो मण्डमिव । तस्मादेताभ्यामग्निं विकत् । पूर्वोक्तद्रव्यद्वयेन सह मण्डूकस्यापि विकर्षणसाधनत्वं विधत्ते-'यो वा अग्नि चितं प्रथमः पशुरधिकामतश्विरो वै तशचा प्रदहो. मण्ड़केन विकर्षत्येष वै पशूनामनुपजीवनीयो न वा एष ग्राम्येषु पशुषु हितो नाऽऽरण्येषु तमेव शुचाऽर्पयति' (ले० सं० ५-४-४) इति । गोमहिषानादीनां मध्ये यः पशुरिममिष्टकाभिश्चितमझिं प्रथममधिरुह्य पादेनाऽऽक्रामति तं पशुं संतापेन प्रदग्धुमयमग्निः प्रमुर्भवति । तस्मात्पश्वन्तरेण विकर्षणं न कुर्यात्कितु मण्डुकेन कुर्यात् । मण्डकश्च यागयोग्येषु ग्राम्येष्वारण्येषु च पशुष्वनन्तर्भावाल्लोकेऽपि गोमहिषादिवदुपयोगादर्शनाच्च केनाप्युपजीव्यो न भवति । अतस्तेन विकर्षणे तमेव मण्डुकं संतापेन योजयति ॥ १॥

अनुगमयित्वा मण्डूकस्य प्राणान्संल्लोभ्य सर्वान्त्समुद्योत्करे न्यस्यति ॥ २ ॥ यं द्विष्यात्तमुपस्पर्शयेत् ॥ ३॥

विकर्षन्नेवानु गमयित्वा मण्डुकस्य प्राणान् प्राणस्थानानि नासिकाद्यादीनि सर्वाणि संल्लोभ्य यथा न ज्ञायन्तेऽङ्गानीयं नासिका इमे अक्षिणीति तथा कृप्यते । उत्करे शेषमुदस्यति । यं द्विप्यायजमानस्तमेतैरवकादिभिः स्पृशेत् ॥ २ ॥ ३ ॥

स्वयं कृण्वानः सुगम [प्र]यावं तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नꣳ सधस्थमनु पश्यमाना आ तन्तुमग्निर्दिव्यं ततान ॥ त्वं न तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाऽग्ने पृष्ठे वयमारुहेमाथा देवैः (वः)सधमादं मदेम । अतिसर्गं ददतो मानवायर्जुं पन्थानमनुपश्यमानाः। अजुषन्त मरुतो यज्ञमेतं वृष्टिर्देवानाममृतꣳ स्व(सुव)र्विदम् । आ वर्तमानो भुवनस्य मध्ये प्रजा विकुर्वञ्जन्यन्विरूपाः। संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पान्तु रजसः परस्तात् । प्रजां ददातु परिवत्सरो नो धाता ददातु सुमनस्यमानः । बह्वीः साकं बहुधा विश्वरूपा एकव्रता मामभि संविशन्त्विति पञ्चान्वारोहाञ्जुहोति । (ख०९)॥४॥

जुह्वा पञ्चगृहीतं गृहीत्वा · स्वयं कृण्वान इत्यादिचित्येऽसावन्वारोहनामक होम कुर्यात् । सर्वत्राग्निदेवता ॥ ४ ॥