पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रम्- [१२

प्रक्षेतानान्ये वनानीति पठन्ति । विकल्पार्थे न्वारोहः । नमो रुद्रेभ्यो ये पृयिव्यामित्यातमासेन जानुदने नमो रुद्रेभ्यो येऽन्तरिक्ष इति नाभिदन्ने नमो रुद्रेभ्यो ये दिवि, इत्यास्यदन्ने । एतानेव यजमानं वाचयत्यन्वारोहान् । एतानेय विपरीतान्- नमो रुद्रेभ्यो ये दिवि, इत्यास्यदन्ने, नमो रुद्रेभ्यो येऽन्तरिक्ष इति नाभिदन्ने, नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदने, तं वो जम्भे दधामीत्येवमन्तम् ॥ ___ यद्वा-शतरुद्रीयं जुहोति ( तै० सं० ५-४-३) इति । शतमित्यपरिमितत्त्वं लक्ष्यते । अपरिमिता रुद्रा यस्मिन्नध्याये प्रतिपाद्यन्ते सोऽध्यायः शतरुद्रीयः । जर्तिला आरण्यातिलाः । गीधुका आरण्यगोधूमाः । अथवाऽजक्षीरेण जुहुयात् । अर्चनीयेन पूज्येन प्रवर्दीघृतेन तथाविधनाजारोमसंघातेन चोत्पन्नत्वादस्य स्थावरस्यार्कनाम संपन्नम् । तेनार्कपर्णेन जुहुयात् । तत्र त्रेधा विभाग एवं करणीयः-नमस्ते रुद्रेत्यारम्य सभापतिभ्यश्च वो नम इत्यन्तः प्रथमो भागः । नमो अश्वेभ्य इत्यारम्यावार्याय चेत्यन्तो द्वितीयो भागः । नमः प्रतरणाय चेत्यारभ्य य एतावन्तश्चेत्यूचा सहितस्तृतीयो भागः। त्रिष्वप्याहुतिषु क्रमेण जानुदघ्नादिदेशेषु झुग्धारणं हस्ताभिनयेन व्याख्यातम् । नमो रुद्रेभ्य इत्यादयस्ता अध्वर्युर्यजमानं वाचयेत् । यत्र पशवो न संचरन्ति तत्रार्कपर्णत्यागः ॥ ४ ॥ ५ ॥ ६ ॥ : अर्कपर्णस्य परित्यागदेशमाह -

यं द्विष्यात्तस्य संचरे पशूनां न्यस्येद्यः प्रथमः पशुरभितिष्ठति स आतिमार्छति ॥ ( ख० ७)॥ शतरुद्रीयस्य ब्राह्मणम् ॥ ७॥

यं पुरुषं यजमानो द्विष्यात्तस्य पशूनां संचरप्रदेशे तर्कपर्ण परित्यजेत् । तत्त्यक्त पण यः पशुः प्रथम इतरेभ्यः पशुभ्यः पूर्वः सन्नभिक्रम्य तिष्ठति स नियेत । इदं शतरुद्रीयस्य ब्राह्मणमित्यर्थः ॥ ७ ॥

यो रुद्रो अग्नौ यो अप्सु य ओषधीष्विति रौद्रं गावीधुकं चरुं पयसि शृतं यस्यामिष्टकायाꣳ शतरुद्रीयं जुहोति तस्यां निदधाति ॥ ८॥ तिसृधन्वमयाचितं ब्राह्मणाय दद्यात् ॥ ९॥ वसवस्त्वा रुद्रैः पुरस्तात्पान्त्विति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशमाज्येनाग्निं प्रोक्षति ॥ मध्य उत्तमेन प्राङ्मुखो यत्ते रुद्र पुरो धनुरिति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशं नमस्कारैरुपतिष्ठते मध्य उत्तमेन प्राङ्मुखः ॥१२.३.१०॥