पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकान्याख्यासमेतम् । ९१ सथाचाऽऽहाऽऽपस्सम्बः- ऐडिक्या चित्याऽध्वर्युरासिमभिमृश्य ' इति । तेन धेनु. करणं याजमान पुनरध्वर्युग्रहणमभिमर्शनार्थमिति ॥ ३ ॥

शतरुद्रीयं जुहोति जर्तिल यवाग्वा वा गवीधुकयवाग्वा वा गवीधुकसक्तुभिर्जर्तिलैः सर्पिषा मृगक्षीरेणाजक्षीरेण वाऽर्कपर्णेनोर्ध्वस्तिष्ठन्नुत्तरार्ध्यायामिष्टकायां नमस्ते रुद्र मन्यव इत्येताननुवाकाꣳस्त्रैधं प्रतिविभज्य प्रथमेनानुवाकेनाशीत्या च जानुदघ्नेऽशीत्यैव नाभिदघ्नेऽशीत्या यच्च प्रागवतानेभ्यस्तेनाऽऽस्यदघ्ने सहस्राणि सहस्रश इत्यसंख्यातान्दशावतानान् प्रत्यवरोहाञ्जुहोति॥ ४ ॥ नगो रुद्रेभ्यो ये दिवीत्यास्यदघ्ने नमो रुद्रेभ्यो येऽन्त'रिक्ष इति नाभिदघ्ने नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदघ्ने ॥ ५ ॥ असंचरेऽर्कपर्णमुदस्यति ॥६॥

शतरुद्रीयमिति कर्मनामधेयम् । रुद्रा वहयो योज्यन्त इति । जतिला आरण्य. तिलाः । तेषां यवाग्वा । कसके( कुशयवै र्गवीधुकैर्वाऽऽरण्यतिलैरेव · वा गवीधुकसक्तुभिरेव. वा. कुस ( श ) य [ व सर्पिपति वैखानसः । तच्च जीर्ण घृतभित्येके । अजक्षीरेणाऽऽरण्यानां होममुदङ्मुख उत्तराळयामुत्तरस्य पक्षस्योत्तरापरकोणस्तस्मिञ्जुहोति विका वा । उत्तरेऽसेऽनेः स्वयमातृण्णायां वा तृतीयायां यथाऽग्निर्नाऽऽक्रम्यने तथा बध्यते, न प्रचारः । अनुपरिचारोऽप्रदक्षिणं संततधारया जुहोतीति वैखानसः । अपरिवर्गमेवैन शमयतीति लिङ्गात् । वाजसनेयिनामपि संतता होतन्येति स्पष्टवचनान्न मन्त्रान्तेन होमः । नमस्ते रुद्र मन्यव इति विभागः पदैत्रेधा येषामनुवाकानां तेषा सहस्रयोजन इत्येवमन्तास्तिस्त्र आहुतयः । जानुदनेन नाभिदघ्नेनाऽऽस्यदन्नेन चोत्तराभिस्तिस्रो नमो रुद्रेश्यों ये पृथिव्यामित्यादि । आस्यदन्ने नाभिदघ्ने जानुदप्ने चैव हुत्वाऽसमासेन या उत्तमास्ता यजमान वाचयति, इति । एता एव यजमानो वाच्यते । एष विधिस्तैत्तिरीयाणाम् । अथवा प्रथमानमस्त इत्यारभ्य जानुदन्ने नमस्तक्षभ्यः स्वाहेति जुहोति । सर्वत्र रुद्रा देवताः । स्थकारेभ्यश्च व इत्युपक्रम्य नाभिदध्ने नमः स्वायुधाय च स्वाहेति जुहोति । भाष्यकारस्तु नमः स्वायुधाय च स्वाहेति हुत्वा सुधन्वन इत्युत्तरत्राऽऽरम्भ इति । सुधन्वने चेत्यारम्याऽऽस्यदघ्ने शेषमन्त्रगणेन प्रागवतानेभ्यः पूर्वमवतानेभ्यस्तासामीशान इत्यास्यदन्ने हुत्वा सहस्राणि सहस्रश इत्यसमासेन दशावताना हूयन्ते । केचित्तु-एकादशाव- ,