पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- - [ १२ प्रश्ने

गायत्रीं दक्षिणत उपदधाति । एवमनुपूर्वाः सर्वाः । सर्वत्राग्निर्मूर्धा । भुवो । जनस्य गोपाः। त्वां चित्रश्रवस्तम । अग्ने तमद्याश्वमित्येता आम्नाता भवन्ति ॥ (ख० ६) ॥ २६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने द्वितीयः पटलः ॥२॥

अग्ने यशस्विन्निति राष्ट्रभृतः पुरस्तादनेश्चतस्त्रः । हिरण्येष्टकाभिः सर्वतोमुखमुपदधाति, इत्यापस्तम्बः । उपधानम्- यो वा अग्निर सर्वतोमुखं चिनुते ' ( ते० सं० ५-७-४) इत्युक्तं ब्राह्मणे । गायत्रीमग्निति पुरस्तादुपदधाति । त्रिष्टुभं दक्षिणतोऽग्ने वो यज्ञस्येति । जगती पश्चाज्जनस्य गोपाः । अनुष्टुभमुत्तरतस्त्वां चित्रश्रवस्तमेति । पङ्क्ति मध्ये, अग्ने तमद्याश्वमिति । एष सर्वतोमुखोऽग्निर्हिरण्येष्टकाभिश्चीयते ॥ २६ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयो गचन्द्रिकायां द्वादशप्रश्ने द्वितीयः पटलः ।.


12.3 अथ द्वादशप्रश्ने तृतीयः पटलः ।

सहस्रस्य प्रमा असीति सहस्रेण हिरण्यशल्कैः प्रदक्षिणमनुपरिक्रामन्प्रतिदिशमग्निं प्रोक्षति द्वाभ्यां द्वाभ्याꣳ शताभ्याम् । मध्य उत्तमाभ्यां प्राङ्मुखः ॥ १॥

सहस्रस्य प्रमा असत्येतर्मन्त्रहिरण्यशनैरूस्थितो न वकं शताभ्यां द्वाभ्यामेकै कस्यां दिशि प्रोक्षति, आज्यप्रोक्षणवत् । सहस्रस्येति वचनं द्विसाहलादिनप्यनूहः । सहस्रादीनामपारमितवाचित्वात् ॥ १॥

इमा मे अग्न इष्टका धेनवः सन्त्वितीष्टका धेनूः कुरुते ॥ २ ॥

अनेन मन्त्रेण श्रोण्यन्ते तिष्ठन्नुत्तरा धेधेनुम्थीनाया एवेष्टकाः कुरुते । यजमानो धेन्ः करोतीति वैखानसभरद्वाजौ ॥ २ ॥

ऐडिक्या चित्याऽभिमृशत्यारण्येऽनुवाक्या भवन्ति ॥ ३ ॥

ऐडिकी चितिः--अग्निरसिं वैश्वानरोऽसीत्यनुवाकः । तेनाभिमृशत्यध्वर्युरग्निम् ।