पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटला ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ८९

हिरण्यगर्भः समवर्तताग्र इत्यष्टौ सरितः ॥ २१ ॥

हिरण्यगर्भ इत्यष्टौ सरित उपदधातीत्यर्थः ॥ २१ ॥

विश्वकर्मा दिशां पतिरिति पञ्च हिरण्येष्टकाश्चतस्रः प्रतिदिशमेकां मध्ये ॥ २२॥

हिरण्येष्टकाः प्रतिदिशनसमासेन ॥२२॥

प्राणाय त्वा चक्षुषे त्वेति चतस्रः शर्कराः स्वयमातृण्णाः प्रतिदिशम् । [ संवत्सरस्य प्रतिमामिति प्रतिमामत्रैवर्षभ आम्नातः] ॥ २३ ॥

प्राणाय त्वा चक्षुषे त्वा तया देवतया, व्यानाय त्वा चक्षुषे त्वा तया, अपानाय त्वा बक्षुषे त्वा तया, वाचे त्वा चक्षुषे त्वा तया, इति चतस्रः स्वयमातृण्णा उपदधाति ॥२३॥

अग्न आयाहि वीतये । अग्निं दूतं वृणीमहे । अग्निनाग्निः समिध्यते । अग्निर्वृत्राणि जङ्घनत् । अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशम् । देवस्य द्रविणस्य व इति पञ्चाह्नां रूपाणि । [अथ व्रतमुपदधाति ]॥ २४॥

शाखान्तरस्थाः पठिताः पञ्चाहा रूपाणि । अत्र व्रतमुपदधातीति शाखान्तरोक्तम् । एवमापस्तम्बेऽपि ॥ २४ ॥

शतायुधायेति पञ्चाज्यानीः । इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति चतस्रो वज्रिणीः प्रतिदिशं ( अश्मन इषुहस्त उपदधाति ) पञ्चैके समामनन्ति यो न उपरिष्टादिति मन्त्रꣳ संनमति ॥ २५॥

अज्यांनिशब्दोपेतैर्मन्त्रैरुपधेया इष्टका अज्यानयस्ता एता उपदध्यात् । वज्रिणीशपदधाति (ते० सं० ५-७-३) इति ब्राह्मणे विधिर्दष्ट यः । वजिणीरश्मनस्ताः प्रतिदिशमुपधीयन्ते । असमासेन यो न उपरिष्टादिति । इषुहस्तेन पञ्चमीति शाखान्तरस्था । उपरिष्टादघायुरभिदासतीति ॥ २५ ॥

अग्ने यशस्विन्यशसे ममर्पयेति चतस्रो राष्ट्रभृतः । गायत्रीं पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मध्ये ।

१ धनुश्चिनान्तर्गतग्रन्थः सूत्रपाठे नास्ति ।