पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्य ख्यासमेतम् । ८७

अप्सुषदसि श्येनसदसीति पञ्चाग्निरूपाणि ॥ ८॥

अनिरूपवाचिमिर्मरुपधेयस्वादिष्टवा अप्यनिरूपाणीत्येवोच्यन्ते । 'अप्सुषदसि श्येनसदसीलाहतद्वा. अग्ने रूप५ रूपेणवाशिमवरुन्धे' (तै० सं०.५-३-१०) इति । आन्याकारवाचिनां पदानां पाठेन योग्यरूपेण युक्तमग्निमेव प्राप्नोतीत्यर्थः ॥ ८॥

पृथिव्यास्त्वा द्रविणे सादयामीति पञ्च द्रविणोदाः ॥ ९ ॥

द्रविणोदाः पञ्च । द्रविणोदाशब्दयुक्तर्मन्त्रैरुपधेयत्वाद्रविणोदा इत्यासां नाम ॥९॥

प्राणं मे पाह्यपानं मे पाहीति षडायुष्याः ॥ १२.२.१० ॥

आयुष्याः षट् । आयुःशब्दोपेतैर्मन्त्रैरुपधेयत्वादेता इष्टका आयुष्याः ॥ १० ॥

अग्ने यत्ते परꣳ हृन्नामेत्यग्नेर्हृदयम् ॥ ११ ॥

अग्ने यत्ते पर हन्नामेत्येका । मध्य उपध्याद्धृदयसाम्यादिति भावः ॥ ११ ॥ .

या वा अयावा इति सप्तर्तव्याः । १२ ॥

एतद्यावादिशब्दानामृतुसंवन्धित्वात्तैरुपधेया इष्टका अप्युतन्या इत्युच्यन्ते ॥ १२ ॥

अग्निना विश्वाषाडित्येतेनानुवाकेनेन्द्रतनूरुपदधाति ॥ १३ ॥

इन्द्वतनवों द्वाविंशतिः । विश्वाषाडित्यादिशब्दा इन्द्रतनविशेषवाचकास्तद्युक्तैर्मन्त्ररुपधेया इष्टका इन्द्रतनवः ॥ १३ ।।

अभीषाच्चाभिषवी चाभिवयाश्चोर्ध्ववयाश्च बृहद्वयाश्च सवयाश्च सह्वाꣳश्च सहमानश्च सहस्वाꣳश्च सहीयाꣳ श्चेत्येतेनानुवाकेनेन्द्रनामान्युपदधाति॥१४

अभीषाचेति दशेन्द्रनामानि ॥ १४ ॥

प्रजापतिर्मनसाऽश्वोऽच्छेत इति त्रयस्त्रिंशतं यज्ञतनूः ॥१५॥

यज्ञतनुप्रतिपादकशब्दयुक्तमन्त्ररुपधेया इष्टका यज्ञतनवः ॥ १५ ॥

ज्योतिष्मतीं त्वा सादयामीति द्वादश ज्योतिष्मतीः ॥ १६॥

ज्योतिप्मतीशब्दयुक्तमन्त्रैरुपधेया इष्टका ज्योतिष्मत्यः । ते च मन्त्रा आरण्यकाण्डे समान्नाताः ॥ १६ ॥

रोहितेषु वा जीमूतेषु सादयामि । अरुणेषु त्वा जीमूतेषु सादयामि । सितेषु त्वा जीमूतेषु सादयामि । नीलेषु त्वा जीमूतेषु सादयामि। कृष्णेषु त्वा जीमूतेषु सादयामीति पञ्च जीमूताः॥१७॥

पञ्च जीमता असमासेन ॥ १७ ॥

कृत्तिका नक्षत्रमित्येतेनानुवाकेनाꣳस्यष्टा नक्षत्रेष्टका उपदधाति॥१८॥