पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ . सत्यापादविरचितं श्रौतसूत्रम्- [-१२ प्रश्ने

यादमात्रीः, ताः प्रथमायां मध्यमायां पञ्चम्यां वा समाप्चायां, न पुरीपमुपदध्यादित्यर्थः । ॥ ४५ ॥ १६॥ इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां ..... प्रयोगचन्द्रिकायां द्वादशप्रश्ने प्रथमः पटलः ॥ १॥

12.2 अथ द्वादशप्रश्ने द्वितीयः पटलः ॥

इन्द्राग्निभ्यां त्वा सयुजा युजा युनज्मीत्यष्टौ सयुजः ॥ १ ॥

देवताभिः सहाग्निं योजयन्तीति सयुजो मन्त्राः । तेर्मन्त्रैरुपधेया इष्टका अपि सयुजः । यत्सयुज. उपदयाति ( तै० सं०५-३-९.) इत्यादिदर्शनात् ॥ १ ॥

अम्बा नामासीति सप्त कृत्तिकाः॥२॥

असमानेन सप्त कृत्तिकाः ॥ २ ॥

पुरो वातसनिरसीति पञ्च वृष्टिसनीरनुपरिहारꣳ सादयति ॥३॥

वृष्टि सनिशब्दयुक्तैर्मन्त्रैरुपधेया इष्टका वृष्टिसनयः । एकामिष्टका हस्ते धृत्वा चयनक्षेत्र प्रदक्षिणीकृत्योपदध्यात् । एवं पश्चानुपरिहारं प्रतिदिशमेकां च मध्ये। । यदेकधोपद्ध्यादेकमृतु वर्षेत् ! ( तै० सं०५-३-९) इत्येकप्रयत्नोपधानं वारमितुमनुक्रमेण परितो हृन्वा हत्वा तदुपधानं विदधाति भगवती श्रुतिः ॥ ३॥

सलिलाय त्वा सर्णीकाय त्वेत्यष्टावादित्येष्टकाः॥ ४ ॥

आदित्यशब्दोंपेतैर्मन्त्रैरुपधेया इष्टका आदित्येष्टकाः ॥ ४ ॥

ऋचे त्वा रुचे त्वेति पञ्च घृतेष्टका अनुपरिहारꣳ सादयति ॥५॥

घृतपिण्डा एवं घृतेष्टकाः । अमृन्मयीप्विष्काम सूत्रकारेण परिगणितत्वात् । तत्रापि पूर्ववदेकैकस्या इप्टकायाः प्रदक्षिणावृत्तिपूर्वकत्वं विधत्ते 'अनुपरिहार५ सादय. त्यपरिवर्गमेवास्मिस्तेगो दधाति ' (तै० सं० ५-३-१०) इति ॥ ५॥

यशोदां त्वा यशसि सादयामीति पञ्च यशोदाः ॥ ६ ॥

असमासेनोपदध्यात् । । यशोदा उपदधाति ' (५-३--१० ) इत्यादिब्राह्मणम्

भूयस्कृदसि वरिवस्कृदसीति पञ्च भूयस्कृतः ॥७॥

भूयों बाहुल्यं करोतीति भूयस्कृत् । ताः पञ्चोपदध्यादित्यर्थः ॥ 1.7