पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलिसप्रयोगचन्द्रिकाच्याख्यासमेतम् । ४५

दधातीत्यापस्तम्बवैखानसौ । त्रिष्टुभो दक्षिणतोऽः । जगतीः · पश्चादनुष्टुभ उत्तरतः । बृहतीरुष्णिहाः पतीरक्षरपङ्क्तीरित्येतानि बृहत्यादीनि यथावकाशं : त्रीणि त्रीण्येव स्युः । अधिका या अक्षरपक्तिः सा विकल्पार्था । अतिच्छन्दस्तु मध्येऽ:-अग्नि होतारमिति । द्विपदास्त्वन्ततः पुच्छे तास तुप्यते कर्मकाले द्विपदासु नेप्यत इति च्छन्दोविचितिवचनात् ॥ ११ ॥ ४२ ॥

आयोस्त्वा सदने सादयामीति स्वयमातृण्णामभिमृश्याश्वेनावघ्राप्य परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीमिति मध्येऽग्नेरविदुषा ब्राह्मणेन सहोपदधाति । सुवरित्येतया व्याहृत्या । चितिं जुहोमीति स्वयमातृण्णायाꣳ हुत्वाऽपानिति। प्रोथदश्वो न यवसे अविष्यन्नित्युत्तरेऽꣳसे विकर्णीमुपदधाति । स्वयमातृण्णां च विकर्णीं च नान्याभिरिष्टकाभिरभ्युपदधाति ॥ ४३ ॥४४॥

आयोस्त्वा सदने सादयामीति प्रणीताः स्वयमातृण्णा अभिमृश्य श्वेतेनाश्वेन चावप्राप्य, आरूढ एवावघ्रापणं करोतीत्येके, नीत्याऽश्वसमीपं, परमेष्ठी त्वा स.दयतु दिवः पृष्ठ इत्यविदुषा ब्राह्मणेन सहोपदध्यात्। तया देवतयाऽङ्गिरस्व वा सीद सुवरित्यन्तेन मन्त्रेण, चित्ति जुहोमीति तस्यां हुत्वाऽपाननर्मूच श्वासवायुनीयते । वरदान सामयानप्रैषश्च, स्थिते नोपधानं ताभ्याम् । प्रोथदश्व इति विकर्णीमुत्तरेऽस उपदधाति । ते विष्टके स्वयमातृण्णा विकर्णी च तयोरुपरि नान्यामिष्टकामुपदधाति । ४३ ॥ ४४ ॥

अग्ने गोभिर्न आगहीत्येतेनानुवाकेन गोचितिमुपदधाति । सहस्रं पादमात्रीरिष्टकाः ॥ ४५ ॥ ता मध्यमायां चित्यां चित्यां पशुकाम उपदधाति ॥ ( ख० ४)॥ ४६॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने प्रथमः पटलः ॥ १॥

अग्ने गोभिर्न आगहीत्यनुवाकेन प्रतिमन्त्रमुपदधाति, यावत्सहस्रमपहित(मुपधान)मिति पुनः पुनरभ्यस्यतेऽनुवाकः । पूर्ण सहस्रमधिका ऋचस्त्यज्येरन् । अयं विधिः सहस्राग्निसंख्याधिक यथा न भवति तथेति । अन्यत्र सहस्रात्प्रथमा तामुक्त्वा, द्विसाहस्रादिषु पशुकामस्य यजमानस्य । गोचितिरित्यस्या नामधेयम् । योऽग्निश्चीयते तस्य