पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ . सत्यापाढविरचितं श्रौतसूत्रम्-..: [ १२ प्रश्ने

प्रजापतिस्त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् । अत्र रेतःसिचः स्थविरस्योपदधाति ।३६ ॥ द्यौरपराजिताऽमृतेन विष्टाऽऽदित्यास्ते गोप्तार इति मण्डलेष्टकाम् । सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहीति हिरण्येष्टकाम् ॥ ३७॥

... .. - अथवाऽन्यः क्रमः-- पञ्चचोडांन्ता उपधाय देवानां . यान्यसीति संयान्यौ, तपश्च 'तपस्यश्चेत्युतव्ये, प्रजापतिस्त्वा सादयतु दिवः पृष्ठ इति विश्वज्योतिः" स्वराः ज्योतिरिति रेतःसिक् । सुवरसीति हिरण्येष्टका चौरपराजितेति मण्डले का प्रोपदश्च इति विकर्णी परमेष्ठी त्वा सादयतु दिव इति स्वयमातृष्णा, इत्यापस्तम्बसूत्रे, एष वा कमो भवत्युपंधानस्य ॥ ३१ ॥ ३७॥

आपराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य यदक्रन्दः प्रथमं जायमान इति श्वेतमश्वं प्रदक्षिणं परिणीय वसन्ति ॥ ३८ ॥

गतम् ॥ ३८॥

औदुम्बरीस्तिस्रः समिधः प्रादेशमात्रीर्घृते वासयति ॥ ३९॥

औदुम्बरीः समिधो घृते क्षिपति ॥ ३९ ॥

श्वोभूत उत्तमाभ्यां पौर्वाह्निकीभ्यां प्रवर्ग्योपसद्भ्या प्रचर्य पञ्चम्याश्चितेः शेषं याज्ञसेनीं चितिं चिनोति ॥ १२.१.४०॥

श्वोभूते श्वःप्रभाते पौर्वाह्निकीभ्यां प्रचर्य पञ्चम्याश्चितः शेष द्वयमुत्तमा चितिः, इत्युक्तम् । चित्रनामकस्य कस्यचित्पुरुषस्य वंशे समुत्पन्नो यज्ञसेननामकरन दृष्टा चितिर्याज्ञसेनी तां चिनोतीत्यर्थः ॥ ४० ॥

अग्निर्मूर्द्धेति तिस्रो गायत्रीर्मूर्धन्वतीः पुरस्तादुपदधाति । उत्तरतस्त्रिष्टुभस्तिस्रो दक्षिणा उत्तरा जगतीस्तिस्रः पश्चादुत्तरा अनुष्टुभस्तिस्र उत्तरतो बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरिति विषुरूपाणि च्छन्दाꣳसि यथावकाशमुपदधाति ॥ ४१ ॥ अत्रैवातिच्छन्दसमुपदधाति । द्विपदामुत्तमामुपधाय ॥ ४२ ॥

अग्निभूति तिस्रो गायत्रीः पुरस्तादुपदधात्येवमुत्तराण्यपि च्छन्दांसि त्रीणि त्रीण्युप