पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्रम्--- [१२ प्रश्

नेपर्युपधीयमानत्वात्पुरीषवती । पुरीष वा, आत्मनो गवादिशरीरस्य मध्यमुदरमध्ये वर्तमानत्वात् । अतः पुरीषवत्त्वेन सात्मानं शरीरसहितमेवानिं चिनुत इत्यर्थः ॥ २८ ॥

ऋषभप्रभृतिव्या(र्व्या )ख्यातश्चित्यन्तः॥ २९ ॥

ऋषभादिश्चित्यन्तः । अश्वपरिणयनान्तः पूर्ववत् । अनुष्टुभाऽभिमृश्यते चतुर्थी चितिः

श्वोभूते पौर्वाह्णिकीभ्यां प्रचर्य पञ्चमीं चितिं चिनोति ॥१२.१.३०॥

श्वोभूते श्वः प्रभाते पौर्वाहीकीम्यां प्रचर्य सुब्रह्मण्यान्ते पञ्चमी चितिः । श्वेतमश्वमभिमुश्य वाङ्म आसन्निति जपित्वा, इतरथा पञ्चम्याश्चितरिष्टकाप्रणयनादि (समानम्)

एवश्छन्दो वरिवश्छन्द इति चत्वारिꣳशतं विराजो दश दश प्रतिदिशमक्ष्णया ॥ ३१ ॥

उत्तमायां पञ्चम्यां चितौ विराडाख्या इष्टका उपदध्यादिति शेषः । विरानस्तु'उत्तमायां चित्यामुपदधाति विराजमेवोत्तमाम् ' (ले० सं० ५-३-५) इति ब्राह्मणे द्रष्टन्यः । एकैकस्यां दिशीष्टकासंख्यां विधत्ते-- 'दश दशोपदधाति । (५३-५ ) इति । सम्यक्पङ्क्तिरूपत्वं वारयितुं वक्रत्वं विधत्तें-- 'अक्ष्णयोपदधाति । (ते. सं० ५-३-५) इति ॥ ३१ ।।

रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येकत्रिꣳशतꣳ स्तोमभागाः सप्त सप्त प्रतिदिशं तिस्रो मध्ये ॥ ३२॥

रश्मिरित्यादयः स्तोमभागाः । एतैर्मन्त्ररुपधेया इष्टका अपि स्तोमभागाः । उपदधाति, इति सामान्येन विहित पुनर्विशेषाकारेण प्रशंसति --सप्त सप्तोपदधाति सवीर्यत्वाय तिस्रो मध्ये प्रतिष्ठित्यै ' (ले० सं०.५-३-५), इति । एकैकस्या दिशि सप्तसप्तोपधानेन सवीर्यत्वं दाढ्यं भवति । मध्ये तिसणामुपधानेन प्रतिष्ठा स्पैय भवतीत्यर्थः ।। ३२ ॥

राज्ञ(ꣳय)सि प्राची दिगिति पञ्च नाकसदश्चतस्रः प्रतिदिशमेकां (मध्ये । ) पश्चात्प्राचीमुत्तमामुपधायायं पुरो हरिकेश इति नाकसत्सु पञ्चचोडा उपदधाति । ता उपधाय वृत्तां चितिं चिनोति ॥ ३३ ॥