पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७ सत्यापाढविरचिनं श्रौतसूत्रम्- - - [१२ प्रश्ने

प्राच्या त्वा दिशा सादयामीति पञ्चाऽऽत्मेष्टकाश्चतस्रः प्रदिशमेकां मध्ये ॥ (ख०२) ॥ १८ ॥ गतार्थः।

इन्द्रो दधीचो अस्थभिरित्येतेनानुवाकेनाथर्वशिरो दशातिप(रि)क्ता इष्टका उपदधाति ॥ १९ ॥

दशातिष(तिरि)क्ताः शिरस्युपदधाति ॥ १९ ॥

ऋषभप्रभृत्तिर्व्याख्यातश्चित्यन्तः ॥ १२.१.२० ॥

ऋषभाद्यश्वपरिणयनान्तं चित्यन्तं पूर्ववत् । विशेषस्तु तृतीयस्याम्धितेरभिमर्शन जमत्या ॥ २० ॥

श्वोभूते चतुर्थीं चितिं चिनोति ॥ २१ ॥

श्वोभूते पौर्वाहिकीभ्यां प्रवर्योपसद्भयां सुब्रह्मण्यन्ताम्यांप्रचर्य चतुर्थी चिनोति चितिम् । अश्वालम्मं कृत्वा वाङ्म आसन्निति जपः । इतरथा तु तस्याश्चितेरिष्टकाप्रणय. नादि ॥ २१ ॥

आशुस्त्रिवृदग्नेर्भागोऽसीत्येताभ्यामनुवाकाभ्यां यथाब्राह्मणमुपदधाति ॥ २२ ॥

यथा-ब्राह्मणं उक्त तथोपधान पुरस्तादक्षिणतः पश्चादुत्तरतश्च । प्रथमानुवाके चत्वारः पर्याया। द्वितीयानुवाके त्रयः । आशुयॊम धरुणो भान्तः प्रतूर्तिरभिवतों वर्चस्तपो योनिर्मी ओजः संभरणः ऋतुध्नस्य प्रतिष्ठा नाकः, अग्नेर्नृचक्षसां मित्रस्येन्द्रस्य वसूनामादित्यानामदित्यै देवस्य धों यावानामृभूणां विवर्त इति । अत्र विनियोगसंग्रहकारस्त्वेवम् --- आशुरष्टादशाऽऽदध्यादक्ष्णया स्तोमसंयुताः । अग्नेः शिष्टा दशाऽऽदध्यादक्ष्णया स्तोमसंज्ञकाः ॥ २२ ॥

अन्तरिक्षमन्तरिक्षाय त्वेति द्वे संयान्यौ ॥ २३॥

यत्संयानीर्यत्संयनीरुपदधाति, इति ब्राह्मणम् ।। २३ ॥

सहश्च सहस्यश्चेति द्वे ऋतव्ये । समानं तया देवते भवतः ॥ २४॥

स्पष्टोऽर्थः ॥ २४ ॥

एकयाऽस्तुवतेति सप्तदश सृष्टीः ॥ २५ ॥

सृजतिधातुयुक्तैर्मन्त्रैरुपधेया इष्टकाः सुष्टयः । सृष्टीरुपदधातीत्यर्थः ।।। ननु-सृष्टीरुप. दधाति (जै० सू० १-४-१७) इति सृष्टिशब्दो गुणविधिरुतार्थवाद इति संशयः ।