पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ सत्यापाढविरचितं श्रौतसूत्रम् .. १२.

ऋषभप्रभृतिर्व्याख्यातश्चित्यन्तः ॥ ७ ॥

वामने वृषभमित्यषभादि समानं नित्यन्तम् । त्रिष्टुभा द्वितीयामिति तु विशेषः । आपराहिकीभ्यां प्रवग्र्योपसचा प्रचर्याश्वपरिणयनमित्येवमन्तं चित्यन्तम् ॥ ७ ॥

श्वोभूते तृतीयां चितिं चिनोति ॥ ( ख० १ ) ॥ ८ ॥

श्वः प्रभाते पीर्वाहिकीभ्यां प्रचर्य सुब्रह्मण्यान्तं विधाय तृतीयां चितिं श्वेतमश्चमाभिमृश्य वाङ्म आसन्निति चोक्त्वा ॥ ८॥

इन्द्राग्नी अव्यथमाना इति स्वयमातृण्णामभिमृश्याश्वेनावघ्राप्य विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे व्यचस्वतीमिति मध्येऽग्नेरविदुषा ब्राह्मणेन सहोपदधाति । भुव इति चैतया व्याहृत्या ॥ ९ ॥

इन्द्राग्नी अन्यथमानामिति स्वयमातृष्णा प्रणीतामभिमृश्य । इतरथा तु तृतीयस्यावितेरिष्टकाप्रणयनादि । अश्वेन ता स्वयमातृण्णामवत्राप्य चितिस्थ एवं-विश्वकर्मा -स्वा सादयत्वित्यैवमादि लया देवतयाऽङ्गिरस्वध्रुवा सीद भुव इत्येवमन्तेन मन्त्रेणोम दधाति ॥ ९॥

चित्तिं जुहोमीति स्वयमातृण्णायाꣳ हुत्वाऽनुव्यनित्यविद्वान्ब्राह्मणो वरं ददाति ॥ १२.१.१० ॥

चित्ति जुहोमीति जुह्वा स्वयमातृण्णायां च हुत्वाऽन्या(नुव्य)ननं निरुच्छासेनावस्थानं वरदानं साम गायेति प्रैषः । ऊर्ध्वजानुश्चोपदधाति ॥ १० ॥

ज्योतिरसि ज्योतिर्मे यच्छान्तरिक्षं यच्छान्तरिक्षान्मा पाहीति हिरण्येष्टकाम् । अधि द्यौरन्तरिक्षं ब्रह्मणा विष्टा मरुतस्ते गोप्तार इति मण्डलेष्टकाम् । अनुरेतः सिचो विवयस उपदधाति । विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् । अन्तरिक्षस्य यान्यसि देवानामन्तरिक्ष यान्यसीति द्वे संयान्यौ ॥१ १ ॥

ज्योतिरसीति हिरण्येष्टकाम् | अधि द्यौरिति मण्डलेष्टकाः । सर्वा रेतःसिनो मध्यमे (ध्ये 'वि) वयसः । विश्वकर्मा त्वा सादयविति प्रणीतानामेका विश्वज्योतिः । अन्तरिक्षस्य यान्यसीति द्वे संयान्यौ ॥ ११॥

नभश्च नभस्यश्चेषश्चोर्जश्चेति चतस्र ऋतव्या द्वे द्वे समानतया देवते भवतः ॥ १२ ॥