पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ]. महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । - आश्विनीनां पश्चात् --सर्ऋतुभिरिति पश्चर्तन्या उपदधाति । आस्वृतव्यासु ना(अ) पकाम् । द्वंद्वमन्या उपदधाति चतस्रो मध्ये धृत्यै' इत्यवकामनूपदधातीत्यधिकारात् । यद्वा---एतैर्मन्त्रैः साध्यमुपधानं विधत्ते--ऋतव्या उपदधाति ( ६-३-१) इत्यादि। वसन्तादीनामृतूनां स्वरवव्यापारसामर्थ्यायैतदुपधानम् । इष्टकासंख्यां विधत्ते-'पञ्चोपदधाति' (ते. सं०.५-३-१ ) इत्यादि । हेमन्तशिशिरयोः समासेनतूनां पश्चस्वम् ॥३॥

अनुपरिहारꣳ सादयति प्राणं मे पाह्यपानं मे पाहीति पञ्च वायव्या ऋतव्या अनूपदधाति वायोर्यान्यसि देवानां वायो यान्यसीति द्वे संयान्ये । शुक्रश्च शुचिश्चेति द्वे ऋतव्ये ॥ समानतया देवते भवतः ॥ ४ ॥

प्राणं मे पाहीस्यूतन्यानां पश्चात्पञ्च प्राणभृतः । ( अपस्पिन्वेति पश्चापस्या इत्याप. स्तम्बः ।) अनुपरिहत्य चाग्निमित्येकैकया प्रतिदिशमुपदधाति, इति श्रुतेः । भरद्वाजस्यतु यदेकधोपदध्यादिति तस्याः श्रुतेरयमर्थस्तेन विकल्पितः । संयान्यौ च हे वायोर्यान्यसि, इति । शुक्रश्च शुचिश्चेति द्वे ऋतव्ये अवकोपधानं च पूर्ववत् ।। ४ ॥

अपस्पिन्वेति पञ्चापस्या वायव्या अनूपदधाति । अनुपरिहारꣳ सादयति । विष्टम्भो वय इति चतस्रः । मूर्धन्वती पुररस्तादुपदधाति ॥ ५ ॥

अपसिन्वेत्यपस्याः पश्च, वायव्या दिश उपधानम् । विष्टम्भों वय इति चतस्रो वयस्याः, पुरस्तादारभ्य प्रत्यगपवर्गा इति भाष्यकृत् । मूर्धशब्दोपेतैर्मन्त्रैरुपधेया इष्टका मूर्धन्वत्यः । यस्मात्पूर्वस्यां दिश्युपधेया मूर्धशब्दोपेतमन्त्रसाध्यास्तस्मात्पक्ष्याकारण चीयमानस्याग्नेरपि मूर्धा पूर्वस्यां दिशि भवतीति भाष्ये विस्तरः ॥ ५ ॥

त्र्यविर्वय इति पञ्च दक्षिणतो वयस्विनीः । पष्ठवाड्वय इति पञ्च पश्चाद्द्वेऽनुमती वस्तो वय इति पञ्चोत्तरतः सिꣳहवतीः । अपि वा .वस्तो वय इति दक्षिणेऽꣳस उपदधाति । वृष्णिर्वय इत्युत्तरे । व्याघ्रो वय इति दक्षिणे पक्ष उपदधाति । सिꣳहो वय इत्युत्तरे । पुरुषो वय इति मध्ये ॥ ६ ॥

न्यविर्वय इति पञ्चाग्नेर्दक्षिणस्या श्रोण्याम् | उत्तरस्थां-पष्ठवाद्वय इति ताः पञ्च । बस्तो वय इत्येको दक्षिणेऽसे । वृष्णिय इत्युत्तरेऽसे । न्यानो वय इत्येका दक्षिणे पक्षे । सि हो वय इत्युत्तरे । पुरुषो वय इति मध्ये || ६... .