पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्-...... १६ प्रभेपमुपदधाति, इति श्रुतिः । पुरीषान्ता श्रु(चि)तिर्भवति । प्रत्यवरोहण वाङ्म आसनित्युक्त्वा ॥ १९ ॥ २० ॥

यो अप्स्वन्तरग्निर्यो वृत्रे यः पुरुषे यो अश्मनि । य आविवेश भुवनानि विश्वा तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । यꣳ हुतादमग्निं यमु काममाहुर्यं दातारं प्रतिग्रहीतारमाहुः । यो देवानां देवतमस्त्वः(स्त)पोजास्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । पृष्टो दिवीत्येषा । यः सोमो अन्तर्यो गोष्वन्तर्वयाꣳसि य आविवेश यो मृगेषु । य आ विवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । येनेन्द्रस्य रथꣳ(थाः) संबभूवुर्यो वैश्वानर उत वैश्वदेव्यः ॥ धीरो यः शु(श)क्रः भ(प)रि भूरिदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । उक्षान्नाय वशान्नायेति षड्भिश्चितिं चितिमुपधायाभि जुहोति ॥ २१ ॥

यो अप्स्वन्तरनिरिति षड्भिश्चितिं चितिमुपधाय पुरीषान्तामुपरि जुहोति । सर्वत्रानिर्देवता । चितावेव हिरण्यं निधाय तस्य. जुहुयादित्येके ॥ २१ ॥

एवमेतान्यत ऊर्ध्वमृषभप्रभृतीनि सर्वेषु चित्यन्ते समानानि क्रियन्ते ॥ २२ ॥

सर्वेषु वक्ष्यमाणचित्यन्तेषु चर्षभप्रभृतीनि कर्माणि समानान्येव ॥ २२ ॥

आग्नेय्या गायत्रिया प्रथमां चितिमभिमृशेत् । त्रिष्टुभा द्वितीयाम् । जगत्या तृतीयाम् । अनुष्टुभा चतुर्थीम् । पङ्क्त्या पञ्चमीम् । सर्वासां धामच्छद्द्वितीया । अग्ने भूरीणि तव जातवेद इति धामच्छत् । अग्ने देवाꣳ इहाऽऽवह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः । अगन्म महा मनसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानू रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ मेधाकारं विदधस्य प्रसाधनमग्निं होतारं परि भूतमं मतिम् । त्वामर्भस्य हविषः समानमित्त्वां महो वृणते नरो नान्यं त्वत्। मनुष्वत्त्वां निधी