सामग्री पर जाएँ

पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/70

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
संस्कृतकथासंग्रहः

 वासुदेववचः श्रुत्वा ते सर्वे नराधिपाश्चेदिराजं व्यगर्हयन् । ततः प्रतापवाञ्शिशुपाल इदमब्रवीत् । हे कृष्ण, क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति । इत्युक्तो भगवान्मधुसूदनो मनसा दैत्यगर्वनिषूदनं चक्रमचिन्तयत्। चक्रे हस्तगते सति भगवानुच्चैर्वाक्यमभाषत । शृण्वन्तु महीपालाः ।अपराधशतं क्षाम्यं मातुरस्यैव याचने । तन्मया दत्तं याचितम् । अपराधशतमस्य वै पूर्णम्। अधुना वो महीक्षितां पश्यतां तमहं निहन्मि । एवमुक्त्वा क्रुद्धो यदुश्रेष्ठस्तत्क्षणाच्चेदिराजस्य शिरश्चक्रेण व्यपाहरत्।

EXERCISES.

(1) Explain the following constructions:―
 (i) चक्रे हस्तगते सति ।
 (ii) पश्यतां वो महीक्षिताम् ।
(2) Name and dissolve the following compounds :―
 शिशुपालवधः, वासुदेववचः; दैत्यगर्वः।
(3) Explain the forms:―
 दग्धा, मूढ, प्रसन्न, क्षाम्य, पश्यताम् .
(4) Q. वर्ण्यन्तां शिशुपालस्य पापानि येन स कृष्णस्य वध्यो जातः|

 आ-ह्वे ( Atm.) To challenge. पापकर्मन् A sinful one नृशंसकृत् A cruel one. मातुलः A maternal uncle. व्यगर्हयन् Censured. दैत्यगर्वनिषूदन Destroyer of the pride of the demons. व्यपाहरत् Cut off.