पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/71

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णश्लोकाः । ११. संकीर्णेश्लोकाः । क्षमी दाता गुणग्राही स्वामी दुःखेन लभ्यते । शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥ १ ।। यदि समरमपास्य नास्ति मृत्यो भैयमिति युक्तमितोऽन्यतः प्रयातुम् । अथ मरणमवश्यमेव जन्तो किमिति मुधा मलिनं यशः क्रियते ।। २ ।। विषमां हि दशां प्राप्य दैवं गर्हयते नरः । आत्मनः कर्मदोषांस्तु नैव जानात्यपण्डितः ।। ३ ।। विश्वासप्रतिपन्नानां वञ्चने का विदग्धता । , अङ्कमारुह्य सुतं हि हत्वा किं नाम पौरुषम् ।। ४ ।। वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते - । निवृत्तरागस्य गृहं तपोवनम् ॥ ५ ॥ सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ।। ६ ।। अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञ ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।। ७ ।। दुर्जनदूषितमनसः सुजनेष्वपि नास्ति विश्वासः । बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति ।। ८ । । ६३