सामग्री पर जाएँ

पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/69

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१
शिशुपालवध:।

 शकटिका A cart. अनलङ्कृत Not adorned with ornaments. अनु-कृ To imitate. प्रतिवेशिकः A neighbour. मृत्तिका An earth. सं—तप् To be distressed. जातः A son. गुणनिर्जित Won over by merits. अलीकं A lie. मुग्ध Innocent. अवतार्य Taking off.


१०. शिशुपालवधः ।

 ततश्चेदिराजो वासुदेवमब्रवीत् । हे जनार्दन, आह्वये त्वां युद्धाय, सर्वपाण्डवैः सहितं त्वामद्य निहन्मीति । एवमुक्तो वीर्यवान् कृष्ण इदं वचोऽवदत्।

शृणुत, पार्थिवाः सर्वे, नः शत्रोरपराधान् । अयमेव नृशंसो येन पुरा दग्धा द्वारकानगरी । अनेनैव पापकर्मणा बभ्रोर्भार्यापहृता । एष एव नृशंसकृद्योऽपाहरत्स्वमातुलस्य भद्रां नाम कन्याम् । अस्य मूढस्य रुक्मिण्यां प्रार्थनाऽऽसीत्, किंतु न तां प्राप्तवानसौ मूढ इति ।